________________ जणणीवि तस्स नाऊण निच्छयं तिलयमंगलं काउं / पभणइ तुह सेयत्थं, नवपयझाणं करिस्समहं // 358 // मयणा भणेइ अहयपि नाह ! निचंपि निच्चलमणेणं / कल्लाणकारणाइं झाइस्सं ते नव पयाइं // 359 // तेणं मयणावयणामएण सित्तो नमित्तु माइपए। संभासिऊण दइयं सिरिपालो गहिअकरवालो // 360 // विदेशगमने निश्चयं ज्ञात्वा तिलकमङ्गलं कृत्वा प्रभणति वक्ति, हे पुत्र ! तव श्रेयोऽथ अहं नवपदध्यानं करिष्ये // 358 // मदनसुन्दरी भणति-हे नाथ ! अहमपि नित्यमेव निश्चलमनसा-एकाग्रचित्तेन ते-तव कल्याणस्य कारणानि नव पदानि ध्यास्यामि-स्मरिष्यामि // 359 // तेन मदनाया वचनामृतेन सिक्तः श्रीपालो मात् पादौ नत्वा दयितां-स्त्री मदनसुन्दरी सम्भाष्य गृहीतः करवाल:-तरवारिर्येन स गृहीतकरवालः सन् // 360 // ३५८-त्वार्थमहं नवपध्यान करिष्यामीत्युक्त्या पुत्रं प्रतिपरिपूर्णन्तदीयं वात्सल्यं सूचितम् / ३५९--मदनसुन्दर्या श्रपि मित्याविचलितान्तःकरणेन तदर्थ करिष्यमाणेन नवपध्यानेन सहृदय हृदयचमत्कारी कोऽपि प्रणयो ध्वन्यते / ३६०-अत्र "मयणावयणामयेण" इत्यत्रानुपासो रूपकमेकवाचकानुप्रवेशसङ्करश्च /