________________ न जिनचरित्रम् जेमणप्रसंगे दृष्ट्रा लीलावत्याः प्रकोपः गृहकूपे क्षेपणं च श्रीअमम- | तारकाख्यो गौरव्योऽतिथिराययौ / श्रेष्ट्यऽप्यासनमासनमित्यभाषत सम्भ्रमात् // 10 // सदासनानि रुद्धानि शेषाण्यालोक्य भोजकैः / आदातुं श्रेष्ठिनी शून्यां तामासन्दीमथाऽगमत् // 11 // आसन्दी राजललितोऽप्युपविश्याऽरुधत्तदा / श्रेष्ठिन्युत्थाप्य तं क्रुद्धा हठेनैता- // 40 // मुदास्थत // 12 / / तदन्तःप्राग्भवरिपुं गंगदत्तं विलोक्य सा। कोपात्कालमुखी रौद्री कालरात्रिरिवाऽजनि // 13 // रे पाप! कथमद्यापि जीवसीत्यादिवादिनी / तं हन्तुं निर्दयाऽऽरेभे पाणिमुष्ट्यादिभिभृशम् // 14 // महान्कलकलो जज्ञे भुक्तश्चोत्थितो जनः / सानुतापो हा हतोऽयमिति श्रेष्ठ्यप्यऽधावत ॥१५॥अरोदीत् राजललितः पूचक्रे च परिच्छदः / आः किमेतदिति प्रोचे तत्त्वाज्ञश्चातिथिजनः॥१६॥ PE गृहस्य श्रोतसि ततो नरकप्रतिहस्तके / बालः प्रहारमूर्छालः स मात्राऽक्षेपि कोपतः // 17 // आकृष्याऽस्मात्स्वयं श्रेष्ठी तं राजललिता | हृतैः / सलिलैः क्षालयामास यावद् दुःखार्तमानसः॥१८॥ तावत्तदाऽवधिज्ञानी मुनिचन्द्राभिधो मुनिः / भिक्षार्थमागमत्तत्र साक्षाद् | धर्म इबाङ्गवान् // 19 // युग्मम् // स नत्वा श्रेष्ठिना प्रोक्तः स्नेहयोग्ये सुतेऽपि किम् / मातुर्द्वषोत्र यत्पुत्रः स्याद् दुष्टो जननी नतु 20 // किश्च-द्विजन्मनः क्षमा मातुर्द्वषः प्रीतिः पणस्त्रियाः। नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् // 21 // मुनिराख्यत्प्राग्भ| वात्तसदसत्कर्मणां ध्रुवम् / परिणामः सुखे दुःखे हेतुर्नान्योत्र देहिनाम् // 22 / / क्वचित्प्रीतिं क्वचिद् द्वेषं दृष्टियद् याति चांगि* नाम् / पूर्वजन्मोपकारापकारयोस्तद् विजृम्भितम् / / 23 / / तदुक्तं-यं दृष्ट्वा वर्द्धते स्नेहः क्रोधश्च परिहीयते / स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः // 24 // यं दृष्ट्वा वर्द्धते क्रोधः स्नेहश्च परिहीयते / सविज्ञेयो मनुष्येण एप मे पूर्ववैरिकः // 25 // सर्वः पूर्वकृतानां स्वकर्मणां फलमश्नुते / परो निमित्तमात्र त्वपराधेषु गुणेषु च // 26 // एतावजनिषातां प्राग्भवे बन्धू सहोदरौ / लीलावतीयमासीत्तु चक्कलुण्डा महोरगी // 27 // // 4 //