________________ श्रीअमम जिन // 34 // // लीलावत्यवचस्याः पुढेषकारणम् मतिः श्रेष्ठी तमिति प्रायनामन्यथा पुंस कटाक्षा तेनातिष्णितः स्थित्वा / लीलावत्या अपि काशी | गत्वा | ललितावजनोपायः तुरश्च सः / ज्ञातुं तामपरायत्तां सुहृदं गङ्गमादिशत् // 96 // तस्याः पुंद्वेषमाकर्ण्य ललितं सोऽप्यजिज्ञपत् / तेनातिघृणितः स्थित्वा | क्षण श्रेष्ठ्यऽप्यचिन्तयत् / / 97 / वीक्षितोऽस्मि तया नाऽहमत एव मनागपि / वेश्यानामन्यथा पुंसु कटाक्षाः सैन्यमग्रिमम् / / 98 // तद्योगौपयिक गंगे स्वमत्या चिन्तयत्यथ। स्वयं लब्धमतिः श्रेष्ठी तमिति प्रोचिवान् पुनः॥९९॥ छन्नं भूरिधनेनैतच्चेटीमुपचराऽऽदृतः। सा हि विश्रम्भतः शंसेत्तस्याः पुंद्वेषकारणम् // 100|| तत्र ज्ञाते तदुचितं सर्वमप्याचरिष्यते / प्रपद्येति वचस्तस्य गंगोप्यथ तथाकरोत् // 1 // लीलावत्यवदच्चेटीमथो चतुरिकां सखि ? / कोऽयं ? किमु धनं दत्ते बहु किं ? मत्रयत्यपि // 2 // ऊचे | चतुरिका स्वं नाख्याति पृष्टोऽप्यसौ बहु / कुतोऽपि हेतुं पुद्वेषे किन्तु पृच्छति ते सदा // 3 // दम्भवेश्याऽवदत् ज्ञातं ललितागस्य निश्चितम् / मयाऽवधीरितस्योच्चैः सखि ? सैप सखा खलु // 4 // इत्थमित्थं त्वया वाच्यः स च पृच्छन् पुनः पुनः। अनुशिप्येति सा चक्रे निसृष्टार्थी सखीं तदा // 5 / / दिव्यवस्तूपदानेन हृष्टा शिष्टाग्रिम रहः / तथैवोचे चतुरिका पृच्छन्तं गंगमन्यदा // 6 // इयं पुष्पपुरे पुत्री वेश्यायाः कमलश्रियः / पञ्चेपुमृगयारण्यं तारुण्यं जग्मुषी क्रमात् / / 7 / प्रतिमूर्तिरिखास्याश्च सख्यस्मि प्रातरन्यदा। | गतैतद्धाम्नि तल्पस्थामैक्षे निश्वसतीमिमाम् / / 8 // मया पृष्टा निमित्तं सा प्रोचे धिग्मे प्रमादिताम् / यत्त्वां विवेद नाऽग्रस्थामपि व्याक्षिप्तमानसा // 9 // गोप्य किञ्चिन्न मे तेऽस्ति ततश्चतुरिके ! शृणु / जाने निशान्ते खमेऽगां काऽप्यहं प्रवरे पुरे॥१०॥ काम| केलिवने तस्योपवने कौतुकाद् गता / नन्दने वासवमिव क्रीडन्तं मधुराकृतिम् / / 11 / / जय श्रीकाश्यपकुलोत्तंसश्रीपुञ्जनन्दनः। भद्रं गजपुरश्रेष्ठिश्रेष्ठ श्रीललिताङ्ग! ते॥१२॥ इति त्यागप्रीणितार्थिवर्ण्यमानगुणोद्भटम् / युवानं सपरीवारमेकं सुभगमैक्षिषि // 13 // |च. क० // स्पृष्टाऽथ स्थायिभिर्भावैराश्लिष्टा सात्विकैरहम् / क्लिष्टा च बाणैः पञ्चेपोः सद्योजारारिष सखि ! // 14 // तं स्वमे दृष्ट // 34 //