SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 46393 तरत / दृष्टः साद: सान्ध्यः चिरनिवृत्तोत्सवाहितः शौनिव जिनचरित्रम् चण्डिपूजाच्छाना वधार्थ प्रेषणेऽपि अन्यथा भवनम् श्रीअमम- * सप्रियः / श्वश्रूपनीतां पुष्पादिभृतां पटलिकां वहन् / / 25 / / कूटपाशम कश्चिदन्यं तातोऽधुना व्यधात् / बलवत्कम्पते चेत इति ध्यात्वा विषाऽवदत् / / 26 / / आर्यपुत्र ! निवर्तस्व न रम्यं तातमत्रितम् / प्रिये शान्तं किमकारवृष्टिरिन्दोः क्वचिद् भवेत् // 27 // // 24 // वदन्निति व्रजन्नेष हट्टश्रेणिमवातरत् / दृष्टः सागरदत्तेन पृष्टश्च क्व नु यास्यसि // 28 // यथावत्कथिते प्रोचे प्रहसन् श्रेष्ठिनन्दनः। Maal| अहो नु समयस्तातेनादिष्टो देवतार्चने / / 29 / / क्षुद्रः सान्ध्यः क्षणो भीष्माश्चण्डिकोपान्तभूमयः / वं नवोढोऽनभिज्ञश्च सहायरहितोऽसि च // 30 // तन्निवर्तस्व सदने याहि प्रातव्रजेरिति / यत्नो ह्यचिरनिवृत्तोत्सवानां क्रियते महान् / / 31 / / आख्यद्दामन्दको मैवं वादीस्तातस्य शासनम् / न लंघयाम्यहं किश्च शिशूनां दर्श्यते भयम् / / 32 // प्रहितः शौनिकोपान्तं पुष्टदेहो बजेऽभवम् / त्वत्पार्थे / प्रेषितो लेखपाणिः प्राप प्रियामिमाम् / / 33 / / विसृष्टोऽस्मिन्परं किश्चित्सम्प्राप्स्याम्युत्तरोत्तरम् / तदृष्टप्रत्ययस्ताताद्देशाद्या मेऽथ नि*श्चितम् // 34 // त्रिभिर्वि० // श्यालो जगाद यद्येवं त्वत्स्थाने तर्हि याम्यहम् / नावयोरन्तरं किश्चिदेहि हदे॒ त्वमास्स्व च / / 35 / / आसने | श्रेष्ठिनो दामन्दकं तुङ्गे निवेश्य सः। ततः पटलिकापाणिरचलद् विषया सह // 36 / / दध्यौ विषा च तातेन क्लुप्ताः स्युर्घातकाः | क्वचित् / हनिष्यन्त्युपलक्ष्यैनं न ते तत्साधु साध्विदम् // 37 // निषिध्यमानः शकुनैनिमित्तैरपि सर्वतः / तथाभाव्यवशात्प्राप चण्डीमाल्यवनं स च // 68 / / प्राग्गतः कृतसन्धानस्तस्मिंस्तरुतिरोहितः। निर्दिष्टदृष्टाभिज्ञानस्तं न श्रेष्ठिसुतं विदन् / / 39 / / कालपाशस्तथा मर्माविधा विव्याध पत्रिणा / सोऽपतत्सहसा घूर्णन् यथा प्राप च पञ्चताम् // 40 // युग्मम् / / विषा हा धिक्त्रायचं त्रायवमिति *भाषिणी / चक्रन्द चण्डीवेश्माऽपि रोदयन्ती प्रतिस्वनैः // 41 // शृण्वन्नाक्रन्दतुमुलममिलत्सहसा जनः / श्रेष्ठिपुत्रो मृत इति प्रवाद वाभवत्पुरे // 42 / / श्रुत्वेत्यचिन्तयत् श्रेष्ठी सम्पूर्णा मे मनोरथाः / यदेव मत्पुत्र इति प्रसिद्धिमगमजने // 43 // दिष्ट्या दुरात्मा // 24 //
SR No.600399
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1942
Total Pages306
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy