________________ | // 58 / / तत्किकरोऽस्मि दृत्येन त्वामभ्यागां तदाज्ञया / तस्याग्रमहिषी भूत्वा मानुष्यऽप्यमरीभव // 59 / / सा नखच्छोटिकां दत्वा // 215 // विद्यापारंगमाऽब्रवीत् / दाक्षिण्यैकनिधे ! स्वामिन् शरलोऽसि मा मुह्यताम् // 60 // नाभून्न भविता नैव भवति मातले खलु / मानुषीणां सुरैः सार्धं यतः कुत्रापि संगमः // 61 / / श्रीदं नत्वा पुनः शौरि साऽवादीदिति विस्मिता / अहो ते कौशलं त्ये कार्यसिद्धिपरामुखः // 62 // यदिन्द्रमृत्तिः क्व श्रीदः क्वाऽहं मर्त्यपिपीलिका / चिकीर्षुरनयोर्योगं हास्यं कस्य न यच्छसि ? // 63 / / यन्मय्यनुचितं दूत्यं त्वया श्रीदोऽप्यचीकरत् / तन्मन्ये मयि नर्माऽस्य त्वयि सत्त्वेक्षणं पुनः॥६४॥ खलूक्तो देवताऽऽदेशात्संवादाच पटाकृतेः। चन्द्रातपोक्ताऽन्यदूत्याभिज्ञानप्रत्ययादपि // 65 // भर्ता त्वमेव मे किञ्च श्रीदेनाप्युचितं कृतम् / यत्त्वं दृत्ये नियोज्योपलक्षितोऽसीह सुन्दर ! // 66 // युग्मम् // जगाद यादवो भूयः कुरूक्तं तन्वि मा स्म भूः। श्रीदाज्ञामन्यथा कृत्वा दवदन्तीव दुःखभूः॥६७॥ प्रत्युचे वसुदेवं साऽप्याः श्रीदेत्यभिधाश्रुतेः। सोत्कं मनो मेऽपि तसिन् प्रिये प्राग्जन्मजे स्मृते // 68 // किन्तु देवाः सुधाहारा नौदारिकशरीरिणाम् / दुर्गन्धस्येशते गन्धं सोढुं देहस्य सर्वथा // 69 / / इत्याहतवचो नैव युगान्तेऽप्यन्यथा भवेत् / तत्त्वमेव पतिः श्रीदस्त्वन्यो मे प्रतिमास्थितः // 70 // त्रि०वि०॥ एतन्ममापि शंसेस्त्वमुत्तराशापतेः पुरः / दूतो हि श्लाघ्यते सोध यो द्वयोर्वासये मनः // 71 / / ततो यथागतं गत्वा यथावृत्तं यदूद्वहः / यावदाख्यातुमारेमे वनदस्तावचिवान् // 7 // सर्वो पिदित एवायं वृत्तान्तो | मे ऽवधेर्बलात् / किं स्तूपे त्वां निर्विकारस्त्वमेवासि जगत्त्रये // 73 // सामानिकसमे शौरेः कुर्वाणो गुणवर्णनम् / इदं प्रदत्तवान् | पारितोपिकं धनदः स्वयम् / / 74 // देवदृष्यांशुकयुगं नाम्ना सुरपतिप्रियम् / दिव्यं विलेपनं दिव्याः सुगन्धिकुसुमम्रजः // 75 // bol रविच्छविशिरोरत्नं दकगर्भे च कुण्डले / हारं शशिप्रभं सारं केयूरे ललितप्रभे // 76 // नक्षत्रमालां विमलां दिव्यां नाम्नार्द्धशारदाम् / कथितो वृत्तान्तः श्रीदस्य, तेन दत्तं गुणस्तुतिपूर्वकं पारितोपिकम् // 215 //