________________ श्रीअमम जिन | चरित्रम् // 10 // शूरेण महोरगीविदारणे चन्द्रस्याहिंसाविषयोपदेशः | जन्मान्तरेऽपि खलु देहिनाम् // 57 // जीवान् कर्णान्तविश्रान्तं दुर्वाक्यमपि शल्यवत् / दुनोति किं पुनः साक्षाजीवितव्यपरोपणम् | // 58 // बाह्यानामप्यवध्येयं जातियत्पञ्चमीदिने / फणिनस्तैरिहार्यन्ते देवता इव भक्तितः // 59 / / मन्त्री विष्णोस्तथा शम्भोभूषणं भीषणाप्यभूत् / यजातिः सा कथं ? हन्त युज्यते हन्तुमंगिनाम् // 60 // अमूल्यैः प्राणिनां प्राणैर्माणिक्यपणितैरिव / धिक् त्वां कुतूह| लद्यूतं खल! खेलितुमुद्यतम् // 61 // किञ्चैकदाऽऽययुमेऽस्मदीये जैनसाधवः / तेष्वेकोऽकथयद् धर्मकथामवसरे यथा // 62 // संसारे सौम्य सर्वेऽपि जन्तवः सौख्यलिप्सवः / सुखं न मोक्षादन्यत्र मोक्षः कर्मक्षयात्पुनः॥६३॥ ध्यानात्कर्मक्षयो ध्यानं श्लाघ्यं | धर्मानुबन्धि च। दया धर्मस्य मूलं च तां ततः सम्यगाचरेत् // 64 // युग्मम् / / मिथो विरुद्धाः पाषण्डाः सत्रिषष्टिः शतत्रयी / तेऽपि विप्रतिपद्यन्ते न दयायां यदूचिरे // 65 // श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् / आत्मनः प्रतिकूलानि परेषां न समा| चरेत् // 66 // येषां प्राणिवधः क्रीडा नमर्मच्छिदो गिरः। परापवादः कर्त्तव्यं ते मृत्योरपि मृत्यवः // 67 // येऽप्याहुर्घटचटकन्यायं || जीवेषु बालिशाः। तेषामपि कृपेच्छूनामज्ञानमपराध्यति // 68 // अक्रय्यदुर्लभैर्विश्वराज्याप्तेरपि वल्लभैः। प्राणैरपि परान् धन्याः | पान्ति नन्ति हहाऽधमाः॥६९॥ भवेत्कुरुपो निर्भाग्यो दुर्भगो नित्यदुःखितः / पङ्गुः कुष्ठी कुणिः क्लीवो जीवो हिंस्रोऽन्यजन्मनि॥७०।। श्रूयतेऽन्यभवे कृत्वा दयां दामन्दकः पुरा / ईपत्तत्खण्डनात्प्राप्य दुःखं कल्याणभागभूत् / / 71 / / अत्रान्तरेऽहमप्राक्षं कोऽयं दामन्दको मुने!। अन्वयव्यतिरेकाभ्यां यमिदानीमुदाहृथाः // 72 // प्रमाणयुक्तं वाग्देवीराजधान्यां निजानने / वस्त्रं वचस्विनां पत्रमिव दत्त्वा|ऽवदन्मुनिः // 73 // तथाहि-श्रीदनगरी मृत्तिः स्वर्गिपुरीसखी / आस्ते गरीयसी कासीदेशे वाराणसी पुरी // 74 // या चैत्यमूर्द्धगैः स्वर्णकुम्भर्घ