________________ // 17 // | स्भ्यमितगत्याख्यः खेचराणामधीशितुः // 11 // धूमशिखगौरमुण्डमित्राभ्यां च सहकदा / हीमन्तं पर्वतमगामहं क्रीडनिजेच्छया // 12 // हिरण्यरोमसंज्ञस्य मातुलस्य तपखिनः / अद्राक्षं कन्यकां तत्र रम्यांगी सुकुमालिकाम् // 13 // जातानुरागस्तस्यां च प्राप्तः चारुदत्त| कामस्य वश्यताम् / गतो गृहमहं शून्यः पित्रा दृष्टश्च तत्क्षणम् // 14 // पृष्ट्वा च मित्रे तद्धेतुं ज्ञात्वाऽऽनायितया तया / उद्वाहितोऽमि कृतोऽमितकिं ? जीवपितृकर्नाप्यते सुखम् // 15 // तया सह सुखान्यन्वभूवं दैवादजायत / रागी धूमशिखस्तस्यां विज्ञातश्च मयेङ्गितैः // 16 // |गतिविद्या धरस्य अनिपिद्धन दाक्षिण्यात् तेने सार्द्धमिहागमम् / विकृत्य कदलीवेश्माऽक्रीडं च प्रियया सह / / 17 / / प्रमत्तः प्रापितो धूमशिखेनैतां जीवितदादशामहम् / अपहृत्य प्रणेशे च मत्प्रियासुकुमालिकाम् // 18 // त्वया चाहमसम्बन्धबन्धुना मोचितोऽस्म्यतः। किं? ते प्रत्युपकृत्य नोपकारः स्यामनणः सघणाऽऽदिशः॥१९।। मित्र ! त्वदर्शनेनैव कृतार्थोऽस्मीति चारुणा / संभापितः समुत्पत्य स्वस्थानेऽगात स खेचर: // 20 // उदात्तश्चारुदत्तोऽपि निज मन्दिरमाययौ / कलाविलासस्तेने च कौमुदं पार्वणेन्दुवत् / / 21 / / स मातुलस्य सर्वार्थनाम्नः पुत्रीमुपायत / रूपवती मित्रवतीसंज्ञा ताताज्ञया सुधीः / / 22 / / केवलं स कलाकेलिसक्तस्तस्यां सरगताम् / कलाकेलिमयेष्येष समये बत नाऽभजत // 23 // ततो माता विषष्णोचे भानु नाथ ! प्रवर्त्तय / पुत्रं मुग्धं विदग्धैकसेव्ये विषयवर्त्मनि // 24 // किं ? तया ते श्रिया | भ्यस्याऽपि स्वर्णगिरेरिख / पुत्रेण भुज्यते नैव सप्रियेण प्रियेण या // 25 // श्रेष्ट्यूचेऽयुतसिद्धोयमर्थस्त्रिभुवनेंगिनाम् / स्वस्त्रैणभोग* | शिक्ष्यन्ते केन वा मृगपक्षिणः / / 26 / / अवश्यं कृत्यमेवैतदित्युक्तः स तया पुनः / सत्कृत्य ललितां गोष्ठी भोजनाद्यैर्विशेषतः // 27 // मनुपियवैदग्ध्यं नीयतामिति सादरम् / अभ्यर्थ्य तस्यां चिक्षेप चारुदत्तं ततः स्वयम् // 28 // युग्मम् // दुर्लध्या पितुराज्ञेति चारु-| // 175 // दत्तस्तया सह / उद्यानादिषु बभ्राम निर्विश्राममनारत(मातर)म् // 29 / / अनेकपानां मत्तानां कुट्टन्याः खड्गयष्टिवत् / निन्ये कलिं