________________ // 109 // वनमालाप्राप्तौ भोगविलासा तिरेका कान्तमणिश्चन्द्ररुचेवाऽमृतनिर्भरः॥४६॥ आयुष्मति ! तदेहि वं मुक्तामेखलमञ्जसा। राज्ञा समागमस्तेऽस्तु कौमुद्या इव हर्षकृत // 47|| आययौ वनमालाऽपि तया सार्द्ध नृपौकसि | राज्ञाप्यनुपरोधेनाऽवरोधे निदधे मुदा॥४८॥ अन्तःपरमनादृत्य रममाणस्तया सह / जीवितं यौवनं राज्यममस्त सफलं नृपः॥४९।। स सुरेन्द्र इवेन्द्राण्या तया वल्लभया सह / सखं चिक्रीड निर्जीडः क्रीडाशैलवनादिषु // 50 // तो वीरः कविन्दोऽपि स्वप्रियाविरहादऽभूत् / दवानलादिव स्थाणुः कृशः श्यामश्च दुःसहात् // 51 // धृलीधूसरसर्वांगः क्रीडद्वालकवृन्दवत / दराध्वकार्पटिकवद् जीर्णकोपीनखण्डभृत् // 52 // विसंस्थुलशिर केशो मधमत्त इवाधिकम् / दीर्घरोमनखश्रेणिः सुचिरक्केशवानिव // 53 // वल्लभ वनमाले हा मां त्यक्त्वा क्व मनस्विनि!। गतासि / नापराद्धं च मया ते शैशवादपि // 54|| इत्यादि विलपन बाढं भूताविष्ट इवानिशम् / बभ्राम नगरी वीरः शिशुवृन्दप्रतारितः / / 55 / / च० क०॥ प्रदत्ततालैरुत्तालैः शून्यांतःकरणः / स च / हस्यते स्म तदा मत्त इव केलिकिलेजनेः // 56 / / रक्षो यक्षोऽथवा विद्याधरस्त्वां कोऽप्यपाहरत / निर्वीरामिव हा कान्त ! वीरे मय्यत्र सत्यपि // 57 // एवं त्रिके चत्वरे च रथ्यासु प्रललाप सः। लोकैः कारुणिकैर्वीक्ष्यमाणः साश्रुविलोचनैः // 58 // | युग्मम् // राजाऽहाद् भवत्कान्तां न च तत्र प्रभुभवान् / तन्मा शोचीरिति ज्येष्ठ ऽबुधद् बोधितोऽपि सः // 59 / / रङ्कस्येव वराकस्य तस्यैवं दुःखवारिधौ / मनस्यान्तं समाः प्रापुः निर्वेदादिव भूरयः॥६०॥ हा प्रिये वनमाले व गतासीत्यन्यदा रटन् / राजवेश्मांगणे सोऽगात् कपिवद् बालकैर्वृतः॥६॥ अवेष्टन्त तत्र लोकाः सोत्काः कौतुकवीक्षणे / निर्माल्यमाल्यैः संवीतं तं पिशाचकिन जबात // 2 // उत्तालतालिकायुक्तं व्यक्तं कलकलं नृपः / वनमालान्वितोऽश्रौषीत् तदा तदनुयायिनाम् // 63 // किमेतदिति सम्भ्रान्तौ तौ 109 //