________________ // 105 // कीरः सहसारे सुरो जातः | // 6 // स्नुषोपकारिणीत्येतद् ज्ञातुमिच्छाम्यहं पुनः / ततः कीरनृपः सर्व मध्येसभमचीकथत् // 62 // तावन्वशाच्च वध्वां न प्रभविष्णुरपि क्रुधम् / करोमि तद्भवन्तावप्येतां नो कर्तुमर्हथः॥६३।। वराक्यां कीदृशस्तस्यां संरम्भो वा स्त्रियां मम / अवध्या साऽपराधेऽपि प्रोक्ता शास्त्रेषु तद्यथा // 63 / / अपराधसहस्रेऽपि योषिविजतपस्विनाम् / न वधो नांगविच्छेदो दण्डो निर्वासनं परम् // 6 // किश्चाऽऽदत्स्व पुरश्रेष्ठिपदं दत्तं मयाऽधुना / अथ संसारवैराग्यापन्नस्तन्नोऽग्रहीद् धनः॥६५॥ बकुलाय ततः स्वर्णपट्टबन्धमनोहरम् / प्रदाय तत्पदं राजा संपूज्य विससज्ज तौ // 66 / / गृहे गताभ्यां निभेत्स्य ताभ्यां निर्धारिता रुषा / अप्राप्तानुशया रत्नवती पित्गृहेऽगमत // 67 / / ज्ञातप्रवन्धस्तां शूरदेवोऽपि निरवासयत् / अथेत्थं क्वापि पापात्मा न सा स्थानमविन्दत // 68 // ग्रामाद ग्राम भ्रमन्ती च क्वापि देवकुलेऽन्यदा / सुप्ता निश्यहिना दृष्टा मृत्वा नरकमासदत् / / 69 / / अनुज्ञाप्य शुकं पुत्रकृतनिःक्रमणोत्सवः। समुद्रघोषसूरिणां पार्श्व दीक्षां धनोऽग्रहीत् / / 70|| श्राद्धतां दधतुः शुद्धां श्रेष्ठिनीबकुलो पुनः। कालात्क्लप्मान्तकृत्यैश्च सगतिस्तैरवाप्यत // 71 // साम्राज्यं परिपाल्य सप्त दिवसानेकातपत्रं ततो, दत्त्वा तोसलये गुरुन् गुणनिधीनाकार्य सम्पूज्य च / आसेव्याऽनशनं दिनानि कतिचित् कृत्वा च कालं सुधीः श्रीमान् कीरनरेश्वरोऽजनि सहस्रारे महद्धिः सुरः // 72 / / अथ च्युत्वा ततः कालादुत्पद्य सुकुले क्वचित / आदाय व्रतमुत्पाद्य केवलं सेत्स्यति क्रमात् // 73 / / आख्यायेत्यऽवदज्ज्येष्ठो गंग! स्वां प्रकृति भज / श्रुत्वैवं शूद्रकमुने१रन्तां व्रतखण्डनाम् / / 74 // गंगदत्तोऽभ्यधादार्य ! त्वमायास्यसि किं ? मुधा / एतद् वेव्येव किन्तु स्वचेतसः प्रभवामि न // 75 / / निन्द्यानऽप्यर्थये यद्वा भोगान् वैचित्र्यतो रुचेः। हस्ती हि फलितेऽप्याम्रवणे वाञ्छति सल्लकीम् // 76 // एवं सन्मार्गविमुखं तमुपेक्ष्याथ दुर्मतिम् / वैराग्यकोटिमध्यासाामसिवांल्ललितो मुनिः॥७७॥ आलोचनां व्रतोच्चारं सत्त्वानां क्षामणामपि / ज्येष्ठ दत्तोऽभ्यधादार्य स्वमा हि फलितेऽप्याम्रवणे वाहावार सच्चानां क्षामणामपि // 105 //