________________ करम शशि कलंकी कर्म भिक्षु पिनाकी, करम बलि नरेन्द्रा प्रार्थना विष्णु रॉकी। करम वश विधाता इन्द्रसूर्यादि होई, सबल करम सोई कर्म जेवो न कोई // 5 // कर्मयोगादेव शशी कलंकी कीर्त्यते, कर्मप्राबल्यादेव पिनाकी शंभुर्भिक्षुर्गीयते कर्मयोगादेव रंकीभूय विष्णुना वामनीभूतेन बलिनृपः प्रार्थितः-याचितः, तद्योगादेव कदाचिद्रकृतां, कदाचिच्छीमत्वं, एवं कियन्तो बलिनः, केचन निर्बलाः, एके नरेन्द्राः, अपरे रंकाः, अन्ये मूर्खाः, पुनरपरे विद्वांसः, सर्वमेतत्कर्मयोगादेव सुखदुःखादि बहुविधं फलं जीवोऽनुभवन् संसाररंगमण्डपे नटवन्नृत्यति / अतः प्रायेण कर्मणः षड्दर्शनेऽपि सर्वतो मुख्यत्वं सिद्धयति / अथ ३-क्षमागुण-विषयेदुरित भर निवारे जे क्षमा कर्म वारे, सकल सुख सुधारे पुण्यलक्ष्मी वधारे।। श्रुत सकल अराधे जे क्षमा मोक्ष साधे, जिण निज गुण वाधे ते क्षमा कां न साधे ? // 6 // ___ अहो ! या क्षमा कृतदुरितजालं विलोपयति, किञ्चाग्रेतनकर्मसन्तति निरोधयति, सकलसुखसंपच्छ्यिमनुभावयति, शुक्लपक्षे शशिनः कलामिव गुणश्रियं वर्द्धयति, तथा जीवान् श्रुतज्ञानाराधने प्रवर्तयति, भव्यान्मोक्षपथे समारोपयति, पुनरसौ निजगुणान् ज्ञानदर्शनचारित्ररूपान् भासयति, तामेनां क्षान्ति लोकाः विशेषतः सहर्ष कथं न धरन्ति ? अवश्यमेव तां सर्वार्थसाधनी क्षमा धृत्वा सुखिनो जायन्तां सर्वे भव्यजनाः // 6 //