SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ B ANK क्रीडितुं गच्छन् पथि गंगानदीतीरे समुपाविशत् / तावत्तत्र नद्यां पोतं वाहयन्तीमतिरूपवर्ती तारुण्यशालिनी धीवरसुतामपश्यत्तस्याश्च महीपतेः शान्तनोर्महान् राग उदियाय / तद्रपमोहितः स एकपदमपि गन्तुं न शशाक / तथापि कथमपि स्वालयमागत्य मंत्रिणमाहय तवृत्तमवदत-भोः प्रधान ! त्वं तत्र याहि / तं धीवर तथा कथय यथा स निजपुत्री सत्यवतीं रत्नवती मे दद्यात्तां विना किमपि मे न रोचते / अन्यथा मम जीवितेऽपि संशयमवेहि / अथ तदैव मन्त्री तदन्तिकमागत्य धीवरं कन्यामयाचत / सर्व निशम्य स मत्स्यजीवी वभाषे-हे प्रधान ! तवोक्तं सत्यमस्ति / इमां कन्यामपि दित्सामि परन्तु तब स्वामिनो राज्ञो गांगेयनामैकः पुत्रो विद्यते, स एव राज्यं ग्रहीष्यति / मदीयदौहित्रो राज्यं न प्राप्स्यति, मम पुत्र्यपि यावज्जीवं सपत्नीदुःखेन निज तनयस्य राज्यानधिकारित्वेन च दुःखमेवानुभविष्यति / अतो राजा मदीयदौहित्राय राज्यमिदं प्रदातुमिदानीमङ्गीकुर्यात्तहि सुखेन | तस्मै पुत्रीमिमामहं दद्याम् / अन्यथा नेति तद्वचः श्रुत्वा तत आगत्य नृपाय सर्व व्यजिज्ञपत् / ततस्तदतिदुष्करं मत्वा शान्तनुः किंकर्तव्यतामूढो नितरामौदास्यमभजत् / अथ सभायामासीनमुदासीनं पितरं दृष्ट्वा गांगेयोऽपृच्छत्-हे पितः अद्य व विच्छायवदनः कथं लक्ष्यसे ? तव किमभूत्तन्मे कृपया ब्रूहि, यदहं तत्प्रतिक्रियां कुर्याम् / अथ राज्ञा तत्स्वरूपे यथावत्कथिते गांगेयोऽवदत्-एतदतीव सुकर वेभि / अहं सर्वसमक्षं कथयामि, तत्पुत्राय राज्यप्रदानमङ्गीकुरु पुनस्तां परिणीय सुखी भव / इत्थं भाषितेऽपि नृपेण न विश्वस्तमितीङ्गितज्ञो गांगेयस्तत्कालमेव सकललोकसमक्षं पितुर्विश्वासोत्पादनाय स्वपुंल्लिगमच्छैत्सीत् / तदत्याश्चर्य वीक्षमाणाः सकलाः जना विस्मयाविष्टा बभूवुः / ततः स धीवरो नृपाय सुतामददत तस्यां शान्तनोः पुत्रावभूतां तयोायान् पुत्रो
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy