________________ कामवर्ग:३ सूकमुक्कावल्यां // 131 // अथ निर्मोहकृताऽनशनस्य मोक्षमधिगतस्याऽरहन्नकमुनेः १०-कथातगरपुरीनगर्यो दत्ताभिधानः श्रेष्ठी वर्तते / तस्य भार्या भद्राभिधाना चारहनकाभिधस्तत्पुत्रोऽस्ति / अथैकदा गुरुमुखाद्देशनामाकर्ण्य सपुत्रः समायों दत्तश्रेष्ठी संसारमसारमवबुध्य दीक्षा ललौ। तावुभौ यथावत्संयमाराधनपरावास्ताम् / परमसौ दत्तसाधुः पुत्रोपरि घनिष्ठस्नेहवशात्पुत्रं न कष्टयते / आहारजलादिकृत्यमपि स्वयमेव करोति स्म / इत्थं पुत्रं सुखयन संयम पालयश्चायुःक्षये दत्तमुनिर्देह त्यक्त्वा परलोकमगच्छत् / ततस्तस्यारहनकमुनेः शीतातपे जलाहाराद्यर्थ ग्रामान्तर्गमनादिनाऽतिक्लेश उदपद्यत / याच माता भद्रा साध्वी तदानीतमाहारपेयादिकं तस्य साधोरकल्प्यमेवाऽस्ति / अतः सोरहन्नको मुनिरधिकं क्लेशमन्वभूत् / अथैकदा साधवः स्वस्वपात्राणि समादाय गोचरीकृते नगरान्तश्चेलुः / तत्प्रेरितोऽरहन्नकोऽपि पात्राणि लात्वा तत्पृष्ठानुगोऽभवत, परं निदाघतापाधिक्यात्तेने चेलुः / असो गन्तुमनर्हः पथि कुत्रचिन्मन्दिराधश्च्छायायामतिष्ठत् / तत्र स्थितं तं काचिच्चिरविरहिणी तरुणी निजगवाक्षस्था निरीक्ष्य तद्रूपेण मोहिता दासीमादिशत-हे वयस्ये ! त्वं याह्येनं मुनिमत्रानय / अथ दासी तत्रागत्य तं मुनि तदन्तिकमनयत् / अथागतमतिसुन्दरं तरुणमरहन्नकमुनि साध्वोचत-मुनिसुन्दर ! त्वमेनं तारुण्यमनेन वेषेण मुधा किङ्गमयसि ? त्वमत्रैव सुखेन तिष्ठ, मया सह स्वैरं रमस्व / तदुक्तिमङ्गीकृत्य तत्रैव तिष्ठन् स तया सह विषयसुखं स्वैरं भुङ्क्ते। इतश्च गोचरीमादाय समागतेषु साधुषु भद्रा साध्वी पुत्रमपश्यन्ती तानपृच्छत्-भो मुनयः! मम पुत्रः क गतः ? तैरुक्तमस्माकं पृष्ठे स आसीत्परं कुत्र गतवानिति न विद्मः / इत्याकर्ण्य तदैव विक्षिप्ता सती अरहन्नक! अरहन्नक ! इत्यालपन्ती नगरान्तरितस्ततो बभ्रामाश्चकार, तां तथावस्थामालोक्य कियन्तो लोका बालकाश्च कौतुकात्ता परिवत्रुः / अथैकदा बालपरिवृता सा विक्षिप्ता A // 131 //