________________ भ्रातरमेते किलोपहसिष्यन्ति / मम मातरमपि निन्दिष्यन्तीत्यादि विमृश्य तदैव लज्जावशप्रतिबुद्धो भावदेवोऽपि दीक्षामग्रहीत् / भववेवमुनिश्चारित्रं परिपाल्य स्वायुःक्षये मृत्वा देवोऽभवत् / अथ तस्मिन्मृते भावदेवेन व्यचिन्ति-मया स्वेच्छया दीक्षा न गृहीता, किन्तु बन्धुलज्जया स बन्धुः परलोकमगात् / गृहे च नवपरिणीता पल्ल्यपि मन्मार्ग पश्यन्ती भविष्यति / अतो मका गृहं गन्तव्यमिति विचार्य साधुलिङ्गं त्यक्त्वा परावर्तमानः स तत्र नगरे समागस्य नगरसमीपे कुत्रचित्त्रासादे समुपाविशत् / तावत्तत्र केनापि हेतुना समागता नागिलाख्या तत्पत्नी तं स्वभारमुपलक्ष्य प्रान्तचित्तं तं प्रतिबोध्य संयमे सुस्थिरमकरोत् / एष भावदेवो जम्बूस्वामिजीव आसीदसौ लज्जया दीक्षा ललौ / प्रान्तेऽपि स्त्रीवचसा स्थैर्यमासाद्य स्वात्मार्थमसाधयदतोऽन्यैरप्येवं लज्जा मन्तव्या / येन तस्य जनस्यापि सर्वेप्सितकार्य सिध्यति / लक्ष्म्युपसंहारः, शालिनी-छन्दसि-एवा जे जे रूपड़ा भाव राजे, एणे विश्वे अर्थ थी तेह छाजे / / एवं जाणी सार ए सौख्य केरो, ते धीरो जे अर्थ अर्जे भलेरो // 35 // अतः हे प्राणिनः ! यूयं यदि सुखं वाञ्छथ तर्हि धीरतयाऽर्थोपार्जनं कुरुत / अर्थ विना महान्तोऽपि नैव शोभन्ते / तदैकल्ये रामचन्द्रमपि पथिकाः पारधिमजल्पन् / अतो लोके सर्वतः श्रेयसी सम्पचिरेवास्तीति मत्वा तदर्जनं सर्वैविधेयमेवेति // 35 // | अथ राज्याभिषेकावसरे पितुर्वनवासादेशेन ससीतः सलक्ष्मणो रामो बनाय गच्छन् मार्गे केनापि पथिकेन व्यलोकि / तत्रावसरे तदन्येन पान्थेन स पृष्टः-कि भोः कोऽयमदृष्टपोऽनीदकू पुरुषो गच्छन् वीक्ष्यते / तदाकर्ण्य तेनोक्तमसौ कोऽपि पारधिर्भषिष्यति ? तयोरीदृशं वचनमाकर्णयन रामो जगाद