________________
उपक्रमः
श्रीकल्पकोमुद्यां
च तर्हि तत्तस्मात् सर्वत्र पृथगेव, कथं च श्रीदशाश्रुतस्कन्धचूर्णितः पृथक् एतस्य चूर्णिः,ततश्चानावाधमेतत्तु यत् पुस्तकलिखनकाले | पुस्तकसापेक्षं कल्पवाचनं साध्वगीकृतं, न च तद् भवेद्रात्रौ, ततः संघसमक्षवाचनं प्राकालीनं च दिवसवाचनं च, श्रीहरिभद्राणां | सांवत्सरिकप्रतिक्रमणानन्तरकल्पकर्षणोक्तिस्तु तथाविधपुस्तकनिरपेक्षवाचकानाश्रित्य संघसमक्षवाचनस्यानौत्सर्गिकत्वज्ञापनाय वा, | परमैदंयुगीनानां परःसहस्राब्दीयपुस्तकानां दशाश्रुतस्कन्धानां कल्पातिदेशवतां पृथकल्पानां च दर्शनादृढतरमिदं यदुत सभा| समक्षं दिवसे वाचनं च चिरकालरूढमेव, परतश्चतुर्दशशताब्द्या एतदन्तर्वाच्यप्राचुर्यात् गच्छभेदकालात् परमेव कल्पानां सस्पर्धे | वाचनं, परतः षोडशशताब्द्याश्च सस्पर्धा एतव्याख्यानक्रियेति सप्तदशाष्टादशशताब्द्योः परःशता जाता अस्य वृत्तयः, वृत्तिषु च तासु यथावद्दशकल्पान्त्यजिनभवोपसर्गगणधरवादश्रीपार्थादिचरित्रपर्युषणाचर्चादियुता वृत्तिः तपागच्छसौधानुपमस्तम्भोपमैः महामहोपाध्यायैः श्रीधर्मसागरैः प्रथमं प्रथिता, सा च तथा यथावद्वर्णनीयवर्णनयुता तता येन तद्वचनविशरणविहितविशिष्टतरोद्यमानां श्रीविनयविजयोपाध्यायानां तत्र तत्र तदतिदेशनं करणीयतामापन्न, धृत्तिकृतेस्तदीयाया अनुकृतिस्तु प्रायः समस्तगच्छीयैरप्यैदंयुगीनैः कृतेत्येव तु तस्याः सप्रयोजनतायाः प्रमाणमसाधारणं, पूज्याश्चैते तपागच्छे अस्थिमिञ्जप्रेम्णाऽनुरक्ता इति तैरितरगच्छप्ररूपणापराकरणाय पराक्रान्तं, तत एव तादृक्षु महात्मसु परगच्छीया द्वेषानलज्वालावली विकीर्णवन्तः, परं तन्नैतचित्रं चित्रमिदं यत् स्वगच्छीयैरपि तानवितथानपि पूज्यवर्यालापान्वितथीकुर्वद्भिरितरगच्छीयेषु साहाय्यितं, किं किं केवलिकथितवाक्यानुकार्यपि कथनं कूटनीत्या कुट्टितं श्रीमतां खपरगच्छीयैस्तन्नात्राप्रस्तुतत्वात् प्रदर्श्यते ॥
प्रस्तुतवृत्त्युत्थानं-कल्पकिरणावलीगतानां श्रीमद्वचनानां चावितथत्वं तु प्रस्तुतायां तत्पौत्रविहितायामेव प्रदर्शितं संक्षेपेण,