________________
॥ अथ द्वितीयं व्याख्यानम् ॥ धर्मवरचातुरंतचक्रवर्तिभ्यः-धर्म एव वरं-प्रधानं-चतमृणां गतीनामन्तकरणाच्चतुरन्तं चक्रमि| वचक्रं मिथ्यात्वादिभावशत्रुलवनात्तेन वर्तत इति । दीवोत्ताणमित्यादीनि पदानि भिन्न
सम्बन्धानि चतुर्थ्यर्थषष्टयन्तया योज्यानि, तत्र दीपः इव दीपः समस्तवस्तुप्रकाशकत्वात्, द्वीपो वा | संसारसागरान्तर्वर्तिजीवस्य नानाविधदुःखकल्लोलदुस्थितस्य आश्वासहेतोः, त्राणं-अनर्थप्रतिहननं । तडेतुत्वात् त्राणं, शरणं-अर्थसम्पादनं तहेतुत्वाच्छरणं। गम्यते दुस्थितः सौस्थ्यार्थमाश्रीयतइति गतिः, प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ते पततः प्राणिनः । अप्रतिहतवरज्ञानदर्शनधरेभ्यःअप्रतिहते-सर्वत्राप्रतिधे वरे क्षायिकत्वात् विशेषसामान्यावबोधरूपे ज्ञानदर्शने धारयन्तीति । व्यावृत्तछद्मभ्यः-छादयतीति छद्म ज्ञानावरणादि घातिकर्मचतुष्कं तव्यावृत्तं येभ्यः। जिनेभ्योरागादिजेतृभ्यः, जापकेभ्योऽन्येषामपिउपदेशादिनारागादीनां जयकारथितृभ्यः। तीर्णेभ्यो-भवार्णवं, तारकेभ्योऽन्येषामप्युदेशवर्तिनां । अज्ञाननिद्रामसुते जगति बुद्धेभ्यः-स्वयं, अन्यानपितत्त्वं बोधयन्तीति बोधकास्तेभ्यः।मुक्तेभ्यो-मोचकेभ्य-बाह्याभ्यन्तरग्रन्थबन्धनात् मुक्ताः परेषामपिमोचकाः। एतावन्ति च विशेषणानि भवावस्थामाश्रित्योक्तानि ।
अथ सिद्धावस्थामाश्रित्योच्यन्ते-'सर्वज्ञेभ्यः' 'सर्वदर्शिभ्यः'-सर्व विशेषरुपतया जानन्तीति