________________
कल्प
२३
केवलः परिपूर्णः स चासौ कल्पश्च कार्यकरणसमर्थ इति केवलकल्पः । केवल एव वा केवलकल्पः समग्रः, अथवा परिपूर्णता साधर्म्यात्केवलकल्पः केवलज्ञानसदृशस्तं आभोगयन् पश्यन् । नंदिएत्ति, नन्दितः समृद्धतां प्राप्तः, परमानन्दितोऽतीवसमृद्धः । धाराहतं यन्नीपस्य -कदम्बस्य सुरभि कुसुमं तदिव चंचुमालइअत्ति पुलकितोऽत एवोश्वसितरोमकूपश्च यः स तथा । विकसितानि - भगवत्पृथ्वीतलावतरणदर्शनजनितानन्दाऽतिशयादुत्फुल्लानि वरकमलवन्नयने वदनं च यस्य । तथा प्रचलितानिजिनदर्शनजनितसंभ्रमातिरेकात्कम्पितानि वराणि - प्रधानानि कटकानि - कङ्कणानि, त्रुटिका - बाहुरक्षिका, केयूराणि चाङ्गदानि बाहुम्लविभूषणानि, मुकुटं कुण्डले च यस्य स तथा हारविराजद्वक्षा इति व्यक्तं, 'ततः पदद्वयकर्मधारयः । पालंबेति प्रालम्बो - झुम्बनकं मुक्तामयं प्रलम्बमानं-लम्बमानं घोलच्चदोलायमानं यद्भूषणं तद्धारयति यः स तथा । ससंभ्रमं - सादरं, त्वरितं - सौत्सुक्यं, चपलं-वेगवत् [क्रियाविशेषणानि भगवद्गर्भोत्पत्तिदर्शनजनितसंभ्रमातिरेकप्रतिपादनपराणि चामूनि पदानि इति भावः ] पत्यवरोहति - अवतरति इत्यर्थः । वैडूर्येण मध्यवर्तिना वरिष्ठे-प्रधाने रिष्टांजने रत्न विशेषौ ययोस्ते तथा निपुणेन - कुशलेन शिल्पिना उचिअन्ति-परिकर्मिते, अत एव मिसिमिसिंत त्ति चिकिञ्चिकायमाने मणिभिश्चन्द्रकान्तादिभिः रत्नैश्च कर्केतनादिभिः मण्डिते-भूषिते ये ते तथा पादुके अवमुञ्चति । एकखण्डशाटकमयं उत्तरासङ्गं वैकक्षकं । अंजलित्ति अञ्जलिना मुकुलीकृतौ - अग्रहस्तौ येन सः । अंचेइत्ति आकुंचयति-उत्पादयति । साहद्दु - संहृत्य - निवेश्य त्रिः कृत्वस्त्रीन् वारान् इत्यर्थः। ईसिंति मनाक् प्रत्यु
www
दीपिका :
२३