________________
कल्प-
दीपिकाः
यमित्यर्थः । आधिपत्यं-अधिपतिकर्म-रक्षे त्यर्थः, सा रक्षा सामान्येनारक्षकेणापि क्रियते तत्राहपोरेवचंति, पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं पौरोवत्यै वा, सर्वेषामग्रेसरत्वमिति भावः। तचाग्रेसरत्वं नायकत्वमन्तरेणापि भवेत् स्वनायकनियुक्ततथाविधगृहचिन्तकमान्यपुरुषस्येव ततो नायकत्वप्रतिपत्त्यर्थमाह-स्वामित्वं-नायकत्वमित्यर्थः। एतदपि कदाचित्पोषकत्वमंतरेणापि भवति यथा हरिणयूथाधिपतेर्हरिणस्य तत आह भर्तृत्वं पोषकत्वं अत एव महत्तरकत्वं तदपि कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिदणिजः स्वदासदासीवर्ग प्रति । तत आह-आणेत्यादि, आज्ञया ईश्वरः आज्ञेश्वरः, सेनायाः पतिः सेनापतिः,तस्य कर्म आज्ञैश्वर-सेनापत्यं स्वसैन्यं प्रति अद्भू तमाज्ञाप्राधान्यमिति भावः । अन्यैर्नियुक्तैः कारयन् स्वमेव पालयन् । महयेत्यादि, महता रवेणेति योगः । आहयत्ति, आख्यानकप्रतिबद्धं, अहतं वाऽव्यवच्छिन्नं यन्नाटयं नाटकं तत्र यद्गीतं-गेयं । यानि च वादित्राणि तन्त्रीतलतालत्रुटितानि । तत्र तन्त्री-वीणा, तलतालाश्च हस्तास्फोटरवाः, तला वा हस्ताः, तालाः कांसिकाः, श्रुटितानि शेषतूर्याणि । यश्च घनमृदङ्गो मेघध्वनिर्मदलो यच्च पटुपटहवादितमिति कर्मधारयगर्भो बन्छः। ततस्तेषां यो रवस्तेन भोगान् शब्दादीन् आर्षत्वान् नपुंसकता विहरत्यास्ते। इमं च णं केवलकप्पं जबुद्दीवं, दीवं विउलेण ओहिणा आभोएमाणे आमोएमाणे विहरइ। 1