________________
सन्तापविरहाच्छीतीभवन्ति किमुक्तं भवति?सर्वदुःखानां-शरीरमानसानामन्त-विनाशं कुर्वन्तीति ॥६॥ न चैतत्स्वमनीषया उच्यते किन्तु भगवदुपदेशपारतन्त्र्येणेत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए, बहूणं समणाणं, बहूणं समणीणं,बहूणं सावयाणं, बहूणं सावियाणं, बहूणं देवाणं,बहूणं देवीणं, मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पञ्जोसवणा कप्पो नामं अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुजो भुजो उवदंसेइ त्ति बेमि।।६४॥ पज्जोसवणाकप्पो नाम दसासुअक्संधस्स अट्ठमं अज्झयणं समत्तं (अं० १२१६)
व्याख्या-तेणं कालेणमित्यादि स्पष्टम् , नवरं तस्मिन् राजगृहे नगरे समवसरणाऽवसरे श्रमणदेवानां मध्यगत एव नत्वेकान्ते एवमाख्याति-यथोक्तं कथयति, एवं भाषते वाग्योगेन, एवं प्रज्ञापयति-पालितस्य फलं ज्ञापयति, एवं प्ररुपयति-दर्पणतल इव प्रतिरुपश्रोतृहृदये संक्रमयति, यथाऽऽख्येयस्य नामाऽऽह'पलोसवणाकप्पो नाम अज्झयणं' ति पर्युषणा वर्षासु एकत्र निवासस्तस्या कल्पः समाचारी साधून | साध्वीराश्रित्य विधिप्रतिषेधरुपा इति कर्त्तव्यता तदभिधेययोगाध्ययनमपि पर्युषणाकल्पस्तं 'सअटुं' ति सार्थ प्रयोजनयुक्तं न पुनर्निरर्थकं कण्टकशाखामईनवत्, सहेतुकं अननुपालने ये दोषास्तेषां ज्ञापक,