SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ कल्प दीपिका रोपरि दौ त्रीश्चतुरो वा वारान् कंबासु बन्धान दत्ते,चतुरुपरि वाडकानि च बध्नाति,तथा च स्वाध्यायपलिमन्थादयो दोषाः, यदि चैकाङ्गिकं चम्पकादिपट्ट लभ्यते तदा तदेव ग्राह्यम्, [ बन्धनादिप्रक्रियापरिहारात् ] N| समाचारी अमित्तासनिकस्य-अबद्धासनस्य स्थानात् स्थानान्तरं हि मुहुर्मुहुः सङ्क्रामन् सत्ववधे प्रवर्तिते अनेकानि वा आसनानि सेवमानस्य अनातापिनः-संस्तारकपात्रादीनामातपेऽदातुः तत्र च पनकसंसक्त्यादयो दोषाः, उपभोगे च जीववधः, असमितस्य ईर्यादिषु [तत्राद्यतुर्यपश्चमसमितिष्वसमितो जीवान् हन्ति, भाषाऽसमितः सम्पातिमान, एषणाऽसमितो हस्तमात्रादावप्कायः परिणतो नवीत ], अभीक्ष्णं अभीक्ष्णं-पुनः पुनरप्रतिलेखनाशीलस्य-चक्षुषाऽदृष्ट्वा अप्रमार्जनाशीलस्य-रजोहरणादिनाऽप्रमृज्य च स्थानादिकर्तुः, अत्र दुःप्रतिलेखितदुःप्रमार्जिते अपि संगृहीते 'नत्रः कुत्सार्थत्वात्' तथा तथा तेन तेन अनभिगृहीतशय्याशनिकत्वादिना प्रकारेण संयमो दुराराध्या-दुष्प्रतिपाल्यो भवति ॥ ५३॥ इत्यादानमुक्त्वाऽनादानमाह अणायाणमेअंअभिग्गहिस्स सिज्जासणिअस्स उच्चाकुइअस्स अट्ठावंधिअस्स मियासणिअस्स आयाविअस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं संजमे सुआराहए भवइ ॥ ५४॥ ___ व्याख्या-'अणायाणमेअं' ति कर्मणोऽसंयमस्य वाऽनादानमेतत् शय्यासनायभिग्रहवता भाव्यम् , उच्चाकुचशय्या कार्या साऽपि पक्षान्तः सकृत् चतुरडुकवती च बन्धनीया, कारणे एवोत्थानादि कार्य, ॥ २० ॥
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy