________________
- व्याख्या-निच्चभत्तिअस्सत्ति, नित्यमेकाशनिनः एगं गोअरकालं ति एकस्मिन् गोचरचर्याकाले सूत्रार्थपौरुष्यनन्तरमित्यर्थः, गाहावइकुलं-गृहस्थवेश्म भत्ताए-भक्तार्थ पाणाए-पानार्थ । णण्णत्थेत्यादि णकारो वाक्यालङ्कारार्थः अन्यत्र आचार्यवैयावृत्त्यात् , कोऽर्थः? आचार्यवैयावृत्यं यद्येकवारभुक्तेन कर्तु न पारयति तदा द्विरपि भङ्क्ते, तपसो हि वैयावृत्य गरीयः इति, एवमुपाध्यायादिष्वपि अवजणजाएणं ति न व्यञ्जनानि बस्तिकूर्चकक्षादिषु रोमाणि जातानि यस्याऽसौ अव्यञ्जनजातः ततःस्वार्थे कः अव्यञ्जनजातकात् क्षल्लादन्यत्र यावत्तस्य व्यञ्जनानि प्रकटीभवन्ति तावद् दिरपि भोजनं न दोषायेत्यर्थः, यहा वैयावृत्त्यं अस्याऽस्तीति अभ्रादित्वादप्रत्यये वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः । आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्यौ ताभ्यामन्यत्र एवमुपाध्यायादिष्वपि नेयं आचार्योपाध्यायतपखिग्लानक्षुल्लकानां द्विभक्तस्याऽप्यनुज्ञातत्वात् इत्थमपि व्याख्या ॥२०॥ वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे जं से पाओनिक्सम्म पुवामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिअ संपमज्जिय से य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तट्ठण पज्जोसवित्तए से अ नो संथरिज्जा एवं से कप्पइ दुचंपि गाहवइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २१ ॥