________________
स्थविग
कल्प दीपिका ॥१४५।।
___ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य सुभिक्षां पुरिकापुरी नीतवान् । तत्र च बौद्धराज्ञा जिनचैत्येषु पुष्पप्रदाननिषेधे कृते यः पर्युषणापर्वणि श्राद्धविज्ञप्त्या व्योमविद्यया माहेश्वरीपुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य हिमवदद्रौ श्रीदेवीगृहे गतो, नतश्च श्रिया, दत्तं च प्राग् देवार्चनकृते सज्जीकृतं पद्म, ततस्तदर्पितं पद्मं हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकुर्वितविमानस्थः समहामहं समागस्य जिनशासनं प्राभावयत् राजानमपि श्रावकं चक्रे । अन्यदा श्रीवज्रस्वामी कफोद्रेके भोजनादनुग्रहणाय कर्णे स्थापितशुण्ठयाः प्रतिक्रमणवेलायां पाते अहो ममाऽप्येष प्रमादो जात इति चिन्तयित्वा द्वादशवर्षीयदुर्भिक्षप्रवेशे स्वशिष्यंश्रीवज्रसेनाऽभिधानं
लक्षमूल्यौदनाद् भिक्षां यत्राऽहि त्वमाप्नुयाः सुभिक्षमवबुध्येथास्तदुत्तरदिनोषसि ॥१॥ | इत्यक्त्वा अन्यत्र व्यहारयत, स्वयं च स्वान्तिकसोधुभिस्सह रथावर्तगिरी गृहीतानशनो देवत्वं प्राप। ततो रथस्थेनेन्द्रेण प्रदक्षिणाकरणाद्रथावर्त्त इति नाम तस्य गिरेर्जातमिति अयं चाऽपश्चिमः श्रुतधरः यतः जेणुद्धरिआविजा;आगासगमा महापरिन्नाओ। वंदामि अजवइरं अपच्छिमो जो सुअहराण॥२॥
। वज्रस्वामिवृतं । वित्थरवायणाए पुण अज्जजसभदाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा-थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावचा अभिन्नाया हुत्था,
॥ १४५ ॥