________________
अज्जनाइलाओ अज्जनाइली साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिली साहा निग्गया, थेराओ अज्जजयंताओ अजजयंती साहा निग्गया, थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ ६॥
व्याख्या-अजवइरेत्ति-तुम्धवनग्रामे साधानां सुनन्दा भार्या मुक्त्वा श्रीसिंहगिरिगुरुपाचे धगिरिणा तपस्या जगृहे, सुनन्दानन्दनस्तु जातमात्र एव पितृप्रव्रज्याश्रवणात्सञ्जातजातिस्मृतिः स्वमातुरुगाय रुदनेवाऽस्ते। ततोऽसौ षण्मासवया एव जनन्या तज्जनकस्याऽर्पितो वज्रघन्महाभार इति गुरुस्थापितवजनामा साव्यालये शयातरीभिाल्यमानोऽवर्द्धिष्ट । पालनस्थोऽपि चैकादशाङ्गीमपठत् , त्रिवार्षिकब मात्रा राजसभायामनेकसुखभक्षिका-क्रीडनकैलोभ्यमानोऽपि पितृसाध्वर्पितं रजोहरणग्रहणपूर्व दीक्षामेवाङ्गीचकार, तता जनन्यपि दीक्षां जग्राह । सञ्जाताऽष्टवर्षश्च यः पूर्वभवमित्रदेवैः कुष्माण्डभिक्षां दीयमानां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इति नाऽग्रहीत, ततस्तै(क्रियलन्धिर्दत्ता, तथैव द्वितीयवेलं घृतपुराऽग्रहणे पुनर्नभोगमनविद्या दत्ता, क्रमेण च यः श्रीभद्रगुप्ताचार्यपार्श्वेऽधीतदशपूर्वः सिंहगिरिणा स्वपदे स्थापितः ।यश्च पाटलीपुत्रनगरे धनपतिना दीयमानां बहुधनकोटिशतसनाथां रूपलावण्याऽनुकृतरुक्मिणी रुक्मिणीकनी वजमेव वृणोमीति कृताऽभिग्रहां प्रतिबोद्धयाऽदीक्षयत् । अत्र कविः मोहाब्धिश्चल्लुकी चक्रे येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्तं वर्षि प्लावयेत्कथम् ॥ १॥