________________
द्वितीयेऽहि प्रभुः कोपकटाख्ये सन्निवेशने । अपारयत् पायसेन धन्यस्य गृहिणो गृहे ॥१॥ विहरन्नेकदा स्वामी नगरासन्नवर्तिनं-तापसाश्रममायातो ययौ चास्तं दिवाकरः ॥२॥ तत्रोपकूपन्यग्रोधतरुस्तले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥३॥ ततः पाश्वमुपद्रोतुं, मेत्तमद्रिमिवद्विपः । अमान्धः समायातो मेघमाली सुराधमः ॥४॥ विकृता तेन वेतालाः शार्दुला वृश्चिकाः द्विपाः । नाऽचालीतैरपि ध्यानान्मर्यादाया इवोदधिः॥५॥ विशेषेण ततः कुद्धो, मेघमाल्यसुरः स्वयं । विचक्रे गगने मेघान्, कालरात्रिसहोदरान् ॥६॥ प्रारेभे वर्षितुमेघमालीकल्पान्त मेघवत् । ब्रह्माण्डस्फोटयदिव विद्युच्च व्यानशे दिशः ॥७॥ क्षणादाकण्ठमम्भोभूत, श्री पार्श्वस्वामिनस्तदा । नासाग्रन्यस्तदृग्ध्यानान्मनागपि चचाल न ॥८॥ आनासाग्रं यावदम्भः, श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्र स्यासनं तावदकम्पत ॥ ९॥ महिषीभिस्ततः साकं, नागराजः समाययौ । नत्वा चक्रे प्रभुं शीर्षे, फणानथ प्रभूपरि ॥१०॥ तन्महीष्योपि नाथाये, वेणुवीणादिवन्धुरं । विदधुः गीतनृत्यादि, भक्तिभावितचेतसः॥११॥ ज्ञात्वाऽवधेरमर्षेण, वर्षन्तं मेघमालिनं । निरीक्ष्य कुपितो नाग-राजः साक्षेपमब्रवीत् ॥१२॥ अरे किमिदमारब्धमात्मानर्थाय दुर्मते ! कृपालोरपि भृत्योहं सहिष्येऽतः परं न हि ॥१३॥ प्रभाः सदुपदेशोऽपि, तव वैरायते तदा । लवणायोषरावन्यां वारि वारिमुचामिव ॥१४॥ मेघमाली ततो मीतः, प्रभु शरणमाश्रितः । प्रणम्य स्वामिनं सर्वेऽप्ययुः स्थानं निज निजम् ॥१५॥