SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ व्याख्या-चारकशोधनं-बन्दिमोचनं, मान-रसध्यानविषयं, उन्मानं-तृलारूपं तयोर्वधनं । सन्भितरबाहिरिअमित्यादि-सहाभ्यन्तरेण-नगरमध्यभागेन, बाहिरिका-नगरबहिर्भागो यत्र तत्तथा क्रियाविशेषणं चेदम् । आसिक्तं-गन्धोदकच्छटादानात्, सम्मार्जितं-कचवरशोधनात्, उपलिप्तम्-गोमयादिना, शृङ्गाटकादयः प्राग्व्याख्याताः। पहेसु त्ति पन्थाः-सामन्यमार्गः, सिक्तानि-जलेनाऽत एव शुचीनिपवित्राणि, संसृष्टानि-कचवरापनयनेन समीकृतानि वा रथ्यान्तराणि-रथ्यामध्यानि, आपणविथयःहट्टमार्गा यस्मिस्तत्तथा । तथा मश्चा-मालका:-प्रेक्षणकजनोपवेशननिमित्त, अतिमश्चास्तेषामप्युपरि ये तैः कलितम्, तथा नानाविधरागैः-कुसुम्भादिभिर्भूषिता ये ध्वजाः सिंहगजगरुडादिरुपकोपलक्षितबृहत्पटरूपाः, पताकाः-तदितरास्ताभिमण्डितम् । तथा लाइअं-छगणादिना भूमौ लेपन, उल्लोइअं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितमिव-अर्चितमिव, गोशीर्षस्य-चन्दनविशेषस्य, प्रत्यग्रस्य-सरसस्य, रक्तचन्दनस्य-चन्दनविशेषस्यैव, दर्दुरस्य-दईराभिधाद्रिजातश्च श्रीखण्डस्य, दत्ता-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्ताकारा यत्र कुड्यादिषु तत्तथा। उपचिता-उपनिहिता गृहान्तःकृतचतुष्केपु चन्दनघटा माङ्गल्यकलशा यत्र तत्तथा, वन्दनघटाः सुकृतास्तोरणानि च प्रतिद्वारं द्वारस्य द्वारस्य देशभागेषु यत्र तत्तथा । आसक्तो-भूमिलग्नो, उत्सत्तचोपरिलग्नो, विपुलो-विस्तीर्णो, वृत्तो-वर्तुलो, वग्यारिअ त्तिप्रलम्बितः पुष्पगृहाऽऽकारोमाल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा। पञ्चवर्णाः सरसाःसुरभयो ये मुक्ताः करमेरिताः पुष्पपुञ्जास्तैर्य उपचारः-पूजा भूमेस्तेन कलित। नडेत्यादि-नटा-नाटककारः, ३२
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy