________________
इंति-वेष साधूनि वेष्याणि, मङ्गन्यानि-मनाले साधूनि-प्रवराणि-प्रधानानि वस्त्राणि परिहितानि| निवेसिता। अल्पैः स्तोकैर्महाधैं-बहुमूल्यैराभरणैरलकृतशरीराः । सिद्धार्थाः सर्षपा हरितालिका दूर्वाकृता मङ्गलनिमित्तं मूईनि-शिरसि यैस्ते । तथा सएहिं ति-स्वकेभ्यः स्वकेभ्यः आत्मीयेभ्यः आत्मीयेभ्यः इत्यर्थः ॥ ६७॥
भवण वरखडिंसंगपडिदुवारदेसे एगओ मिलंति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंत्ति, उवागच्छित्ता करयल जाव कट्ट सिद्धत्थं खत्तिअं जएणं विजएणं वद्धाविति ॥ ६८॥
व्याख्या-भवणेत्यदि, भवनवरेषु-हर्म्यषु अवतंसक इव-शेखर इव, भवनवरवतंसकस्तस्य तस्य प्रतिद्वारे मूलद्वारसमीपद्वारे। एगओ मिलंत त्ति-न पुनरसम्बद्धा 'असम्बद्धा हिन क्वचित्स्थानं बहुमानं वा लभन्ते,' राज्ञो मन्त्रिपरीक्षितशय्यकशाय्यवलगकपञ्चशतीवत् । तथाहि___काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवां कर्तुं कस्यचिद्भपतेः पुरो गता, तत्परीक्षार्थ च सचिवेनैकैव शय्या प्रहिता । ते चाऽहमिन्द्रत्वेनान्योन्यं विप्रवदन्तः सर्वेषामप्येषा भोग्या भवत्वितिघिया शयनीयं मध्ये मुक्त्वा तत्सम्मुखोक्रता यः शेरते स्म । ततश्चास्मिन् वृतान्ते रहः सङ्केतितचरपुरुषमुखात् राज्ञा ज्ञाते प्रातरागतास्ते निर्भय॑ निर्वासिता इति। न त्वेवंविधास्ते स्वप्नपाठका इति।