________________
कल्प
दीपिका
व्याख्या-अट्टणसालेत्ति-अदृणशाला-व्यायामशाला|अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि,तथा तत्र योग्या च-शस्त्राद्यभ्यासः-वल्गनं च-उल्ललन,व्यामईनं च-परस्परं बाहाद्यङ्गमो. टनं,मल्लयुद्धं च प्रतीतं, करणानि-चाङ्गभङ्गविशेषाः मल्लशास्त्रप्रसिडानितः श्रान्तः सामान्येन, परिश्रान्तोऽङ्गप्रत्यङ्गापेक्षया सर्वतः । शतकृत्वो यत्पक्वं अपरापरौषधीरसेन सह, शतेन वा कर्षापणानां यत्पक्वं तच्छतपाकमेवं सहस्रकमपि। सुगन्धवरतिल्लमाइएहिं त्ति-आदिशब्दात् घृतकपूरपानीयादि परिग्रहः । कीदृशैः ? प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः, दीपनीयैः-अग्निजनकैः, मदनीयैःमदनविवर्द्धनैः, बृहणीयैर्मासोपचयकारिभिः, दर्पणीयैः-बलकरैः, सर्वेन्द्रियाणि-सर्वगात्राणि च प्रहादयन्तीति तैरभ्यङ्गैः स्नेहनैः अभ्यः क्रियते स्म यस्य सोऽभ्यङ्गितः सन् । ततस्तैलचर्मणि तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चमत्तलिकोपरि कडनं तत्तलचर्म तत्र संवाहिजे समाण त्ति योगः।कैः-पुरुषैः । कीदृशैः? प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि अतिकोमलानि तलानि-अधोभागापेक्षया येषां ते तथा तैः, अभ्यश्रादीनां प्रतीतार्थानां करणे ये गुणविशेषास्तेषु निर्माताः सदभ्यस्ता ये तैः, छेकैःअवसर ः द्विसप्ततिकलापण्डिता, दक्षैः-कार्याणां अविलम्बितकारिभिः, प्रष्ठः-वाग्मिभिः अग्रगामिभिर्वा, कुशलैः-साधुभिः सम्बाधनाकर्मणि, मेधाविभि-रपूर्वविज्ञानग्रहणशक्तिनिष्ठः, जितपरिश्रमैः, अस्थनां सुखहेतुत्वादस्थिसुखा तया एवं शेषाण्यपि पदानि । सुखा-सुखकारिणी परिकर्मणाङ्गशुश्रूषा-सुखपरिकर्मणा तया तस्याश्च बहुविधत्वात्कतमयेत्याह सम्बाधनया-संवाहनया वा विश्रामणया-व्यपगतपरिश्रमः, परिश्रमो नाम व्यायामोत्थः शरीरस्वास्थ्यविशेषः॥६१॥