________________
देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए साहरइ, साहरित्ता जामेव दिसं पाउएतामेव दिसिं पडिगए ॥ २८ ॥
परिआइत्तेत्यादितः पडिगए त्ति यावत्, तत्र दुञ्चपि त्ति द्वितीयमपि वारं समुद्धातं करोति । वेव्विति चिकीर्षितरूपं कर्तुमुत्तरवैक्रियरूपं तच भवधारणीयरूपादन्यदेव येन देवा मनुष्यलोके आयांति । ताए उक्कट्ठाए इत्यादि, तया - देवजनप्रसिडया, उत्कृष्टया - प्रशस्तविहायोगतिषूत्कर्षवत्या, त्वरितया - मानसौत्सुक्यात्, चपलया - कायतः, चण्डया-सम्भारवत्या, जयिन्याऽशेषकर्मगतिजैत्र्या, उध्धुतयाऽशेषशरीरावयवकंपया, शीघ्रया - परमोत्कृष्टवेगवत्या, दिव्यया- देवोचितया, देवगत्या व्यतिव्रजन् । मज्झंमज्झेणंति-मध्यभागेन । आलोके - दर्शनमात्रे । ओसोवर्णि अवस्वपानीनिद्रां दलइत्ति- ददाति । अव्याबाधमिति भगवतो विशेषणं तत्पीडापरिहारात्, अव्याबाधेन सुखेन संहतुरपि पीडाया अभावात् । यद्वा अव्यावाधमन्याबाधेन - सुखं सुखेनेत्यर्थः । यतः तादृशकरणव्यापारेण संस्पृश्य संस्पृश्य स्त्रीगर्भच्छ विच्छेदकरणेऽपि ईषदपि बाधां विनैव नखाग्ररोमकूपेव प्रवेशयितुम् निष्काशयितुम् वा समर्थो हरिणैगमेषीत्यर्थः । भगवत्यां - साहरइत्ति-संहरति योनिद्वारेण निष्काश्य गर्भ - गर्भाशयं प्रवेशयतीत्यर्थः । जामेव दिसिंत्ति यस्य दिशोऽवधेः प्रादुर्भूतः प्रकट्यभूदागत इत्यर्थः ॥ २८ ॥
८