________________
कल्प प्रदीपिका
समाचारी
नानुपाल्याऽन्यैः पूर्व पालितस्य पश्चात्पालनेन, तस्यैव पालितस्य फलमाह-अत्थेगइअत्ति सन्त्येकेऽत्युत्तमया । || पालनया तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति निष्ठितार्था भवन्ति, बुद्धयन्ते-केवलज्ञानेन, मुच्यन्ते
भवोपग्राहिकर्माशेभ्यः, परिनिर्वाति-कर्मकृतसन्तापविरहाच्छीती भवन्ति। किमुक्तं भवन्ति? सर्वदुःखाना| शरीरमानसानामन्तं-विनाशं कुर्वन्ति, दुच्चेणं उत्तमयाऽऽराधनया द्वितीये भवे, तच्चेणं तृतीयभवे,जघन्य | याऽप्याराधनया सप्ताष्टौ भवान्नातिक्रमति ॥ ६३ ।। न चैतत्स्वबुद्धयोच्यते किन्तु जिनोपदेशादित्याह
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए, बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परुवेइ, पञ्जोसवणाकप्पो नामं अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुजो भुजो उवदंसेइ ति बेमि।।६४॥ पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्ठमं अज्झयणं समत्तं (ग्रं० १२१५) श्री रस्तुः . व्याख्या-तेणं कालेणमित्यादिता.बेमित्ति यावत् तत्र तस्मिन् काले चतुर्थारकान्ते तस्मिन् समये । राजगृहसमवसरणाऽवसरे मध्यगतः-श्रमणादिदेव्यन्तपर्षन्मध्यवर्ती चेव त्ति अवधारणे ततो मध्यगत एवन पुनरेकान्ते, एवमाख्याति यथोक्तं कथयति, भाषते-वाग्योगेन, प्रज्ञापयति पालितस्य फलं
॥ २४ ॥