________________
साधावागते च यः पक्तुमारब्धः स पश्चादायुक्तः स च न कल्पते, उद्गमादिदोषसम्भवात् , पूर्वायुक्तस्तु कल्पते तदभावात्, एवं शेषसूत्रव्यमपि भाव्यम् , सङ्ग्रहमाह-जेसे तस्थेत्यादि स्पष्टम् ॥ ३३ ॥ ३४ ॥ ३५ ॥ वासवासं प०निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निग्गिज्झिअनिग्गिझिअ वुट्टिकाए निवइज्जा कप्पइ से अहे आरामंसि वा जाव रुक्खमूलंसि वा उवागच्छित्तए, नो से कप्पइ पुव्वगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुव्वामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिअ संलिहिअ संपमज्जिअ संपमज्जिअ एगाययं भंडगं कट्ट सावससे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं स्यणिं तत्थेव उवायणावित्तए ॥ ३६ ॥ __ व्याख्या-वासावासमित्यादितो नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए इत्यन्तम् तत्र वेलं उवायणावित्तए त्ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तत्र का मेरेत्याह विअडगं इत्यादि विकटकं-उद्गमादिशुद्धं भुक्त्वा पीत्वा च एकत्राऽऽयतं-सुबद्धं भाण्डकं-पात्रद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये वसतावागम्यमेव, बहिर्वसतस्त्वेकाकिनः आत्मपरोभयोत्थ बहवोदोषाः वसतिस्थाः साधवश्वाधृतिं कुर्युः ॥ ३६॥