________________
सम्मत्तगणिपिडगधारणा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खप्पहीणा, थेरे इंदभूई थेरे अज्जसुहुम्मे य सिद्धिं गए महावीरे पच्छा दुन्नि वि थेरा परि निव्वुया । जे इमे अज्जत्ताए समणा निग्गंथा विहरत, एए णं सवे अज्जसुहम्मस्स अणगारस्स आवन्विज्जा अवसेसा गणहरा निखच्चा वुच्छिन्ना ॥ ४॥
व्याख्या-सव्व एए इत्यादितो....निरवच्चा चुच्छिन्नेत्यन्तम् । तत्र इन्द्रभूत्यादयः सर्वेऽपि गणधरा | द्वादशाङ्गिनः आचाराङ्गादिदृष्टिवादान्तश्रुतवन्तः चतुर्दशपूर्विणश्च द्वादशाङ्गान्तर्गतत्वेऽपि पूर्व प्रणयनादनेक विद्यामन्त्रमयत्वात् महाप्रमाणत्वाच्च प्राधान्यख्यापनार्थ तेषां पृथगुपादानम्, द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादत आह-समस्तगणिपिटकधारकाः-गणोऽस्थाऽस्तीति गणी भावाचार्यस्तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटकं द्वादशाङ्गी । तदपि न देशतः स्थूलभद्रस्येव किन्तु समस्तं सर्वाक्षरसन्निपातित्वात् तद्वारयन्ति सूत्रतोऽर्थतश्च ये ते । तथा तत्र नवगणधरा श्रीवीरे जीवति सिद्धाः। इन्द्रभूतिसुधर्माणौ पश्चारिसद्धौ । 'अन्जत्ताए' त्ति आर्यतया अद्यत्वे वा अद्यतन युगे वा, 'आवविज्झा' अपत्यानि-तत्संतानजा इत्यर्थः । निरपत्याः-शिष्यसंतानरहिताः स्वस्वमरणकाले स्वस्वगणस्य सुधर्मास्वामिनि निसर्गात् । सर्वेऽपि गणधराः पादपोपगमनेन सिद्धाः । यतः