SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कल्प “पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं, उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति, यन्नेजति प्रदीपिका मदापिका सा यहूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः”। इति कर्माऽभावः । १ एतेषामर्थ त्वमेवं करोषि-"अस्मिन् जगति अतीतकाले यद् भूतं, यच्च भविष्यकाले भविष्यति, तत्सर्व इदं पुरुष एव-अर्थात-आत्मा एव, निश्चयार्थक 'एव' शब्देन कर्म-इश्वर-आदि सर्वे पदार्थानां निषेधः ज्ञायते, तेन-मनुष्य-देव-IN तिर्यग्-नारक-पर्वत-पृथ्व्यादिकं वस्तु दृश्यते, तत्सर्व आत्मा एव । ततः कर्मनिषेधः स्फुट एव सिद्धः । अस्य वाक्यस्य अनेन अर्थन प्रथमतस्तव मनसि "कर्म अस्ति, न वा ?" इति संदेहो जातः । पश्चादनेन तर्केण दृढीभूतः तद्यथा यथा-"अमूर्तस्य आकाशस्य मूर्तेन चन्दनादिना मण्डनं, खादिना च खण्डनं न संभवति तथा-"अमूर्तस्य आत्मनो मूर्तेन कर्मणा लाभो हानिर्वा कथं भवेत् ?" तस्मात् कर्म नास्ति" इति तवचेतसि वर्तते ॥ - परंतु हे अग्निभूते ! नायमर्थो युक्तः-यतः-इमानि पदानि पुरुषस्तुतिपराणि । वेदपदानि, त्रिविधानि-कानिचिद् विधिप्रतिपादकानि, कानिचिद् स्तुतिपराणि, कानिचिद् अनुवादपराणि "स्वर्गकामो अग्निहोत्रं जुहुयात्" अर्थात्-स्वगस्य इच्छावान् अग्निहोत्रं जुहुयात् इत्यादीनि पदानि विधिप्रतिवादकानि । “द्वादश मासाः संवत्सरः" इत्यादीनि अनुवादकानि अर्थात प्रसिद्धवार्ताज्ञापकानि भवन्ति । “पुरुष एवेदं नि सर्व यद्भुतं, यच्च भाव्यं" इत्यादीनि स्तुतिपराणि भवन्ति । । तस्मात् “पुरुष एवेदं” इत्यादीनि पदानि पुरुषस्य-अर्थात् आत्मनो महिमानं वर्णयन्ति, न तु कर्मादीनामभावं | वर्णयन्ति ।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy