________________
१"विज्ञानघन एवैतेभ्योभूतेभ्यः समुत्थाय तान्येवानुविनश्यतिनप्रेत्यसंज्ञाऽस्ति” इति जीवाऽभावः |
१(एषां वेदपदानां यमर्थ त्वं करोषि, तं प्रथमतः श्रृणु “गमनागमनादिचेष्टावान् अयं अत्मा, मद्यद्रव्येषु यथा मदशक्तिर्जायते, तथा एतेभ्यः लोकप्रसिद्धभ्यः पृथ्वी-अप-तेजो-वायु-आंकाशेभ्यः पञ्चभ्यो भूतेभ्यः प्रकटीभूय-जले बुदबुदा यथा नाशं यान्ति, तथैव तेषु भूतेषु नष्टेषु आत्माऽपि तैः सहैव विनश्यति, अतः पञ्चभूतेभ्यः पृथग् आत्मा नास्ति, अत एव च नष्टे शरीरे आत्मनः पुनर्जन्म नास्ति, इति त्वं अर्थ करोषि, परंतु अयुक्तोऽयमर्थः, श्रृणु तावदेतेषां पदानां सम्यगर्थ___ आत्मनः सर्वेषु प्रदशेषु अनन्तज्ञानपर्यायाः सन्ति, तेन आत्मा "विज्ञानघनः" इत्युच्यते, आत्मनि ज्ञान-दशनगुणौ | मुख्यौ भवतः, तयोः प्रवृतिः उपयोगः कथ्यते, तच द्वेधा ज्ञानोपयोगः दर्शनोपयोगश्च अतः उपयोगोऽपि आत्मनः गुणः, गुणगुणिनोरभेदात-उपयोगोपि आत्मा-विज्ञानघनः कथ्यते, अतएव उपयोगस्वरूपः आत्मा, अर्थात् आमनः उपयोगगुणः-एतेभ्यः पञ्चभ्यः भूतेभ्यः, तथा तद्विकारेभ्यो घटादिपदार्थेभ्यो निमित्तभृतेभ्य आत्मनि उत्पद्यते, यदि ते पदार्था
निमित्तभूता न भवन्ति, तर्हि तस्य पदार्थस्य ज्ञानोपयोगोऽपि नैव उत्पद्यते. तस्मिन् घटादौ पदार्थे नष्टे अन्तरित वा स GI उपयोगो नश्यति, अर्थात घटोपयोगरूप आत्मा विनश्यति, अन्य पटाधुपयोगतया उत्पद्यते सामान्यरूपतया वा
तिष्ठति, अतः "तस्य प्रेत्यसंज्ञा नास्ति" एवमुच्यते, अनेनार्थेनैवं ज्ञायते-आत्मा अस्ति, स च नित्यः, तस्य पुनर्जन्म विद्यते, केवलं अन्यान् पदार्थान् निमित्तीकृत्य आत्मनः उपयोगगुणः उत्पद्यते विनश्यति च इति सारांशः)॥