________________
गच्छा चार
अय यद्येवं ततः किं कर्तव्यमित्याहजइ नवि सक्कं काउं, सम्मंजिणभासिअंअणुढाणं।तो सम्मंभासिजा,जह जणिखीणरागेहिं॥
व्याख्या-यद्यपि न शक्यं कर्तृ-विधातुं, कथं सम्यक्-त्रिकरणशुद्धया जिनभाषित-कैवल्युक्तमनुष्ठान-क्रियाकलापरूप, ततो यथा क्षीणरागैः वीतरागैर्भणित-कथितं तथा सम्यग्-अवितर्थ भाषेत्-अरूपयेदिति । गाथाछन्दः ॥ ३३ ॥
अथ प्रमादवतोऽप्यवितथप्ररूपणे महत्फलं दर्शयन्नाहओसन्नो वि विहारे, कम्मं सोहेइ सुलभवोही य । चरणकरणं विसुद्धं, उववूहितो परूवितो ॥३४॥ |
व्याख्या-अवसन्नोऽपि-शिथिलोऽपि क ? विहारे मुनिचर्यायां कर्म-ज्ञानावरणादि शोधयति-शिथिलीकरोतीत्यर्थः, मुलभा बोधिः-जिनधर्ममाप्तिरूपा यस्यासौ सुलभबोधिः, एवंविधश्च प्रत्यः स्यादिति शेषः, किं कुर्वन् ! 'चरणकरणं विसुद्धं उवव्हतो परूवितो'त्ति चरण-सप्ततिभेदं मूलगुणरूवं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं च करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्ध-नि:कलङ्कमुपबृंहयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । अत्र चरणकरणस्वरूपं यथा" वय ५ समणधम्म १० संजम १७ वेयावच्चं च १० बंभगुत्तीओ ९ । णाणाइतियं ३ तव १२ कोह-निगहाई ४ चरणमेय ॥१॥ पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु ॥ २ ॥” एतयोः क्रमेण व्यक्तिः, सबाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सयाओ अदिनादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिन्गः
F॥३९॥