________________
H
गच्छा
चार
॥१२९
व्यारूया-यत्र च, सुरुष्टाऽपि-कथमपि कारणवशेन भृशं रोषंगताऽपि, किं पुनररष्टा आर्या गृहस्थभाषाभि:-तव गृहं ज्वलतु, तव शवं कर्षयामि, तवाऽक्षिणी स्फुटिते ? तव पादौ कृत्तौ स्तः ? इत्यादि कठोरसावद्यरूपाभिर्भापते, हे गुणसागर! तं गच्छं श्रमणगुणविवर्जितं जानीहीति । गाथाछन्दः॥ १११ ॥ अथार्याया विचित्रवस्त्रपरिधाने दोषमाहगणिगोअम! जा उचिअं, सेअवत्थं विवजिउं सेवए चित्तरूवाणि, न सा अज्जा विआहिया॥११२॥ ___व्याख्या-'गणिगो०' हे गणिन् ! गौतम ! आर्या उचितं श्वेतवस्त्रं विवर्य, चित्ररूपाणि-विविध वर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात् पात्रदण्डाद्यपि चित्ररूपं सेवते, सा आर्या न व्याहृता-न कथितेति विषमाक्षरेति । गाथाछन्दः ॥ ११२ ॥ अथार्याया गृहस्थादीनां सीवनादिकरणे दोपमाहसीवणं तुन्नाणं भरणं, गिहत्थाणं तु जा करे । तिल्लउबट्टणं वा वि, अप्पणो अपरस्स य॥ ११३॥ ___व्याख्या-'सीवणं०' या आर्या गृहस्थानां तुशब्दादन्यतीथिकादीनां, वस्त्रकम्बलचीनांशुकादिसम्बन्धि सीवनं, तुन्नानं, । भरणमिति भरतभरणं करोति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थडिम्भादेः 'तिल्ल 'त्ति तैलाभ्यङ्गम् । 'उवट्टणं 'ति
सुरभिचूर्णादिनोद्वर्तनम, वापीतिशब्दान्नयनाअनमुखक्षालन मण्डनादिकश्च करोति, न सा आर्या व्याहृतेति पूर्वगाथात आकपणीयम्, तस्याः पार्थस्थादित्वसमासादनात् । अत्र निरयावल्यु 'पाङ्गतः सुभद्रार्योदाहरणं ज्ञाताधर्मकथाङ्गतः काल्यायॊदाहरणञ्च लिख्यते । तत्रापि प्रथमं सुभद्रोदाहरणश्च लिख्यते-यथा-"तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए
AMAHARAK网
॥१२९॥