________________
व्याख्या-'सीलत०' दानं ज्ञानदाना १ भयदान २ धर्मोपग्रहदान ३ भेदात् त्रिविधम्, यदुक्तं 'दिनकृत्य' वृत्तौ दानशीलतपोभावैः स तु धर्मश्चतुर्विधः। दानं तावत् त्रिधा ज्ञानाऽभयोपग्रहभेदतः॥१॥अन्येभ्यो भव्यवर्गभ्यो-ऽध्यापनश्रावणादिभिः । यद्दानमागमस्यैतत् , ज्ञानदानमुदाहृतम् ॥२॥ यत्स्वभावात्सुखैषिभ्यो, भूतेभ्यो दीयते सदा । अभयं दुःखभीतेभ्यो-ऽभयदानं तदुच्यते ॥३॥ ज्ञानाभयपदावणामाहाराद्यैरुपग्रहः। दत्तर्यर्जायते शुद्धैस्तद्वपिगृहं स्मृतम् ॥ ४॥शीलमपि सदाचाररूपं, अष्टादशसहस्र शीलाङ्गलक्षणं, ब्रह्मव्रतरूपं चेति त्रिविधं; यदुच्यते-“ सुद्धं समायारमनिन्दणिज्ज, सहस्सअट्ठारसभेयभिन्नं । बंभाभिहाणं च महावयंति । सील तिहा केवलिणो वयंति ॥१॥" तपो बाह्याभ्यन्तररूपं द्वादशविधं, षष्ठयधिकत्रिशतभेदं वा । यदुक्तं श्रीगणिविद्याप्रकीर्णके-“महा भरणि पुबाणि, तिण्णि उग्गा विआहिआ। एएमु तवं कुज्जा, सभिंतरवाहिर ॥१॥ तिण्णिसयाणि सट्टाणि, तवो कम्माणि आहिया । उग्गनक्खत्तजोएसु, तेसुमन्नयरं चरे ॥२॥" कैश्चित्त शारीरादिभेदं त्रिविधमप्युच्यते-यदक्तं 'गुरुगुणपत्रिंशिकावृत्तौ ' कैश्चित्तपस्त्रिविधं शारीरादिभेदमप्युच्यते, यथादेवातिथिगुरुपाज्ञ-पूजनं शौचमाजवं । ब्रह्मचर्यमहिंसा च, शारीरं तप उच्यते ॥१॥ अनुद्वेगकरं वाक्यं, सत्यं प्रियं हितं च यत् । स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥२॥ मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्, मानसं तप उच्यते ॥ ३ ॥ शारीराद् वाङमयं सारं, वाङ्मयान्मानसं शुभ । जघन्यमध्यमोत्कृष्टनिर्जराकरणं तपः ॥४॥" साविकं, राजसं, तामसमिति वा त्रिविध यथा-तपश्च त्रिविधं ज्ञेय-मफलाकाङ्गिभिर्नरैः । श्रद्धया परया तप्तम्, सात्विकं तप उच्यते ॥१॥ सत्कारमानपूजार्थम्, तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तम्, राजसं चलमध्रुवम् ॥ २॥