SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ विशेष उत्पद्यते स प्राच्यते । यत उक्तं 'परिशिष्टपर्वणि' श्रीहेमचन्द्रमूरिपादः--"दध्यौ च स्वर्णकारोऽपि, चरितं योषितामहो । अश्वानां कुहकारावमिव को वेत्तुमीश्वरः ॥ १॥" तथैकारो व्यत्ययनिर्देशश्चार्षत्वात् ततोऽयमर्थः, घनगर्जितहयकुहकवद्विद्युबच्च क्रमेण गूढ--मायाकरण्डत्वेनाऽकलनीयाशयं दुर्ग्राह्य च-अस्थिरत्वेन ग्रहीतुमशक्याशयं हृदयं यासां तास्तथा सम्भवति चार्याणामपि कासाश्चित् स्त्रीजातित्वेन एवंविधत्वं, यत उच्यते स्त्रीमधिकृत्य लोकेऽपि " अश्वप्लुतं | माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यता च । अवर्षणं चाप्यतिवर्षणञ्च, देवा न जानन्ति कुतो मनुष्याः॥१॥" तथा जलमज्झे मच्छपयं, आगासे पक्खियाण पयपति । महिलाण हिययमग्गो, तित्रिवि लोए न दीसति ॥२॥” तथा-"यदि स्थिरा भवेद्विद्युत्, तिष्ठन्ति यदि वायवः । दैवात् तथापि नारीणां, न स्थेम्ना स्थीयते मनः॥३॥" तत् स्त्रीराज्यमुच्यते न स गच्छ:, आर्याणां हि स्त्रीजातित्वेन सर्वकालं तथाविधपरिवर्तकपारतन्त्र्येणैवावस्थानं समुचितं न तु स्वातन्त्र्येण कदाचिदपि यतो लोकेऽप्युच्यते-" पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्यमर्हति ॥१॥"त्रियः दुष्टस्वभावे रेवत्युदाहरणं यथा-तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सेणिए राया, तत्य णं रायगिहे महासतए नाम गाहावती परिक्सइ, अड़े जहा आणंदे, णवरं अट्ठ हिरण्णकोडीओ सकसाओ निहाणपउत्ताओ, अट्ठ वुड्डिपउत्ताओ, अट्ठ हिरणसकंसाओ पवित्यरपउत्ताओ, अट्ठ वया दस गोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामुक्खाओ तेरसभारिआओ होत्था, अहीणजावसरूवाओ । तस्स णं महासयगस्स रेवईए भारियाए कोलहरियाओ अट्ठ हिरण्णकोडीओ, अट्ठ वया दस गोसाहस्सिएणं वएणं होत्या, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया, एगमेगा हिर
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy