SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ णियं पितो तो संसारं भमंतो, देवो पडिगओ त्ति । हे गौतम! स गच्छो ज्ञेय इति शेषः । गाथाछन्दः ॥ ७७ ॥ इच्छिइ जत्थ सया, यिपणा वि फासूयं उदयं । आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं ॥ ७८ ॥ व्याख्या - इष्यते - वाञ्छ्यते यत्र गणे सदा-नित्यं उत्सर्गपदापेक्षया द्वितीयपदं- अपवादपदं तेनापि किम्पुनरुत्सर्गपदेनेत्यपि शब्दार्थः, प्रगता असवः - प्राणा यस्मात् तत्मासुकं किं उदकं - जलं तच्च उत्कालत्रयोत्कलनादिप्रकारेण प्रामुकी स्यात् नतु तप्तमात्रम् | यत उक्तम् दशवैकालिके - “गिहिणो वेयावडियं, जाययाजीववत्तिया । तत्तानिबुडभोइत्तं, आउरस्सरणाणि य ॥ १॥" तप्तानिर्वृतभोजित्वं तप्तं च तदनिर्वृतं चाऽत्रिदण्डोद्धृतं च उदकमिति विशेषणान्यथानुपपच्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः । आगमविधिना-सिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात् तथा हे गौतम! स गच्छो भणितः, प्राकृतत्वान्नपुंसकत्वं, अत्र पानीयमाश्रित्य आगमोक्तं किञ्चिल्लिख्यते तत्राऽऽचाराने " से भिक्खू वा भिक्खुणी वा जाव समाणे सेज्जं पुण पाणगजायं जाणिज्जा तं० उस्सेइमं वा १ संसेइमं वा २ चाउलोदगं वा ३ अन्नतरं वा तहपगारं पाणगजातं अणा घोतं अविलं अवोकनं अपरिणतं अविद्धत्थं अफायं जाव णो पडिगाहेज्जा । अह पुणेवं जाणेज्जा चिरा घोयं किं परिणयं विद्वत्थं फामुयं जाव पडिगाहेज्जा" सभिक्षुर्गृहप्रतिकुलं पानकार्यं प्रविष्टः सन् यत्पुनरेवं जानीयात् वद्यथा - 'उस्सेइमं व' त्ति पिष्टोत्स्वेदनार्थमुदकम् १ 'संसेइमं व' चि तिलधावनोदकं यदि वा अरणिकादिसंस्विन्नधावनोदकम् २ तत्र प्रथमद्वितीयोदके प्रासु एव तृतीयचतुर्थे तु मिश्र कालान्तरेण परिणते भवतः । 'चाउलोदगं' ति तंदुलधावनोदकम् ३ अत्र ERYON
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy