________________
लम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तूनच्छिन्दन्तो यान्तो मर्कटकतन्तु चारणाः १३, चन्द्राकंग्रहनक्षत्राद्यन्यतमज्योतिरश्मिसम्बन्धेन भुवीवपादविहारकुशला ज्योतिरश्मिचारणाः१४, पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवत्तिषु तत्मदेशावलीमुपादाय गतिमस्खलितचरणविन्यासमास्कन्दन्तो वायुचारणाः १५, इति चारणाश्च सातिरेकानि सप्तदशयोजनसहस्राणि ऊद्धमुत्पत्य पश्चात्तिर्यग्गच्छन्ति, उक्तश्च समवायांगे," इमीसेणं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ साइरेगाई सत्तरसजोअणसहस्साई उई उप्पइत्ता तओ पच्छा चारणाणं तिरियगती पवत्तति त्ति"१०।तथा आशीविषलब्धिः -निग्रहानुग्रहसामर्थ्य यदाह-" तपश्चरणमाहात्म्यात, गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युः, निग्रहेऽनुग्रहेऽपि च ॥१५॥११ । तथा केवलिलब्धि १२, गणधरलब्धि १३, पूर्वधरलब्धि १४, अहल्लब्धि १५, चक्रवर्तिलब्धि १६, बलदेवलब्धि १७, वासुदेवलब्धयः प्रतीताः १८ । 'खीरमहसप्पिासव' त्ति पुण्डे क्षुचारिणीनां गवां लक्षस्य क्षीरमद्धिंक्रमेण दीयते यावर्दकस्याः क्षीरं तत् चातुरिक्यमित्यागमे गीयते तदिह क्षीरं ज्ञेयम्, मध्वाद्यप्यजीवसम्पातिशर्करादि किंचिद्विशिष्टं द्रव्य ज्ञयम्, ततो येषां पात्रपतित कदन्नमपि क्षीरमधुसपीरसवीर्यविपाक जायते, वचनं वा शारीरमानसदुःखप्राप्तानां देहिनों क्षीरादिवत्सन्तपैकं भवति, ते क्षीराश्रवा मध्वाश्रवाः सर्पिराश्रवा उपलक्षणवादमृताश्रवा इक्षुरसाश्रवाश्च १९ । तथा 'कोहबुद्धि 'त्ति कोष्टबुद्धयः कोष्टागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भयसां धान्यबीजानां यथा कोष्टेऽवस्थान तथा परोपदशादवधारितानां श्रोतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्टबुद्धयः २०। तथा 'पया|: शुसारि 'त्ति पदानुसारिणत्रिधा अनुश्रोतःपदानुसारिणः १ प्रतिश्रोतःपदानुसारिणः २ उभयपदानुसारिणश्च ३, तत्रा