SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ IBCCIENERASACARBARICA भूयोऽपि कुतुपादिमुखं सचित्तेन पृथवीकायेन जलेनार्दीकृत्योपलिम्पति पृथिवीकायान्तः समुद्गककीटिकादयोऽपि संभवन्ति तेषामपि | | विराधनाऽथवा कोऽप्यभिज्ञानार्थ जतुकादिकं ददाति ततस्तेजकायघातो यत्राऽग्निस्तत्र वायुरपीति षट्कायघातस्तथा च कुतुपादिलेपनिमित्तं दाता कदाचित् वृश्चिकादिभिर्दश्यते तदा प्रवचनमालिन्यं । तथा पुत्रादिदाने क्रये विक्रये चाऽपि पापप्रवृत्तिः। तथाऽपिधानीकृते विस्मृत्या मूषिकादयो जीवा विनश्यन्ति । कपाटोद्भिन्नेऽप्येवं दोषाः तथाहि-कपाटात् प्राक् कथमपि पृथिवीकायो जलभृतः करको वा| | बीजपूरादिकं वा मुक्तं भवति, तदा तस्मिन्नुद्घाटिते तद्विराधना जलभृते च करकादौ च लुठथमाने भिद्यमाने वा पानीयं प्रसर्प-18 भासन्नचुल्यादौ प्रविशेत्तदा अग्निकायविराधनाऽपि, यत्राऽग्निस्तत्र वायुरपि, अथ भूमिकाविवरगतं जलं कीटिकादिकमपि विनाशे त्रसकायविराधना, अतो द्विविधमपि उद्भिन्नं न ग्राह्यं । यदा तु कुतुपादीनां मुखबन्धः प्रतिदिन छोड्यते बध्यते जतुमुद्राव्यतिरेकेण केवलवस्त्रादिग्रन्थिना बध्यते तदा साध्वर्थ उद्भिद्य दीयते तदा साधुना गृह्यते, कपाटोद्भिन्नमपि यत्र प्रतिदिनं उद्घाटयते कपाटउल्लालक-अर्गलिका यदि भूमिघर्षितो न भवति तदा कपाटोद्भिनमपि कल्पत इति १२ मालापहृतेति-मालातः सिक्ककादेरपहृतं साध्वर्थ आनीतं यद्भक्तादिकं तन्मालापहृतं । तच्चतुर्धा-ऊर्ध्वमालापहृतं, अधोमालापहृतं, 2 उभयमालापहृत, तिर्यग्मालापहृतं । तत्र ऊर्ध्वमालापहृतं-विधा, जघन्योत्कृष्टमध्यममेदात् , तत्र ऊवं विलगितोच्चसिक्ककादेहीतमशक्तत्वेनोत्पाटिताभ्यां पाणिभ्यां पादाधोभागाग्रेतनफणाभ्यां भूमिन्यस्ताभ्यां दाच्या निजचक्षुषाऽदष्टं यद्गृहीतमशनादि तत्पाणिमात्रोत्पाटनस्तोकक्रियागृहीतत्वाजघन्यमूर्ध्वमालापहृतं, यच्च निश्रेण्यादिकमारुह्य प्रसादोपरितालात् दाच्या गृहीतं तन्निश्रेण्यादिरो १पि०नि० पृ० १०७ EिADACASSAUGAECCASE
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy