SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अस्या सा अहोरात्रिकी एकादशी प्रतिमा ११, एगराइचि - एकारात्रिर्यस्यां सा एकरात्रिकी द्वादशी प्रतिमा इत्येवं भिक्षुप्रतिमाणसाधुप्रतिज्ञाविशेषाणां द्वादशकं भवन्ति । अथैताः कीदृशी मुनिः प्रतिपद्यते १ तत्र संहननं वज्रऋषभनाराचादेराद्यत्रयान्यतरदेतद्युक्तो प्रत्यन्तपरीषहसहनसामर्थ्यवान्, धृतिवित्तखास्थ्यं तद्युक्तः, महासत्वः सात्विकः अनुकूलप्रतिकूलोपसर्गेष्वपि हर्षविषादं न कृतवान, सद्भावनाभावितान्तःकरणः प्रतिमानुष्ठानेन भावितात्मा तुलनापश्चकेनापि धृतिमान् यदुक्तं सवेण सत्तेण सुत्तेण एगलेण वयेण य । तुलना पंचहा वृत्ता पडिमं पडिवजओ ॥ १ ॥ भाषितात्मा कथं सम्यग् यथागतं तथा गुरुणाऽऽचार्येण वाऽनुज्ञातः यदा गुरुरेव प्रतिपत्ता तदा व्यवस्थापिताऽऽचार्येण गच्छेन वाऽनुमतस्तदा गच्छ एव साधुसमुदायमध्येऽवतिष्ठन निर्मात आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, परिकर्मपरिमाणं तु मासिक्यादिषु सप्तसु या यत्परिमाणा प्रतिमास्तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यन्ते, न च परिकर्म करोति, यथा - आद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यां चैकैकस्मिन् वर्षे, अन्यासां विसृणां एकत्र एकत्र वर्षे प्रतिकर्म्म, अन्यत्र च प्रतिपत्तिस्तदेवं नवभिर्वर्षेराद्याः सप्त समाप्यन्त इति । श्रुतमपि उत्कृष्टतस्तु दश असपूर्णानि पूर्वाणि किश्चिदूनानि । सम्पूर्णदशपूर्वधरो हि अमीघवचनत्वात् धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते । जघन्यतस्तु नवमपूर्वस्य प्रत्याख्याननामकस्य तृतीयवस्त्वाचाराख्यं तद्भागविशेषं यावदित्यर्थः । स्याञ्जघन्योऽल्पीयानपि श्रुताधिगमः श्रुतज्ञानं सूत्रतोऽर्थतश्च । एतत् श्रुतवि| रहितो हि निरतिशयज्ञानरहितत्वात् कालादीन् न जानाति, तीर्थकरादीनां वचनानुसारतः स्कन्धकादिवत् करोत्यल्पञ्जतक्ानपीत्यर्थः ।
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy