SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रश्न० २ परमपूज्य शास्त्रविशारद् शासनसम्राद् महान् क्रियोद्धारक तपागच्छाधिपति जगत्पूज्य सूरिपुरन्दर ज्ञानविमलसूरीश्वरस्तुत्यष्टकम् । सदाचारप्रख्यं विहितजनसख्यं सुमनसम् । क्रियोद्वारे दक्षं समवहितलक्ष्यं प्रभुपदे । अमोघैः सद्बोधैः प्रशमितभविव्रात विपदम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥ १ ॥ प्रलिप्ताः पापौघैः सुकृतचयहीनाः प्रतिपदम् । समुद्विग्ना भूव्यिसनशतकीर्णा भविजनाः । सुधां योधाख्यां सपदि परिपीय प्रवत्रजुः । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥ २ ॥ प्रणीय प्राक्कर्मप्रदहनपटून् संस्कृतमया - ननेकान् सद्ग्रन्थान् स्थिरतरधिया ज्ञानजटिलान् । जिनप्रोक्तानर्थान् जननिकरसंज्ञापनपरम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥ ३ ॥ तपस्तप्त्वा तीव्रं कठिनतरकर्मद्रुपरशुः । सितध्यानैः साक्षात्कृतपरतरज्योतिषपरम् । सदा सिद्धान्तानां प्रकटितसुतत्त्वगुरुतरम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥ ४॥ विधाय द्राकर्मप्रलयमतुलातिं प्रददतम् । विधाय प्राज्यासद्गतिगमनदानज्ञत्ति॑िवहान् । निधाय स्वान्ताब्जे प्रभुचरणपद्मं सुविमलम् । नमामि ज्ञानाब्धिं गुरुवरमहं ज्ञानविमलम् ॥५॥ व्याक०
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy