SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न व्या० वृत्ति वृत्तिकारप्रशस्ति ॥१०६॥ श्रीमदानन्दविमलाख्याः, सूरीन्द्रा जयन्तु ते विश्वे । श्रीमत्तपागणोदधि-प्रोल्लसनशारदेन्दुनिभाः॥३॥ तेषां पट्टे जाताः, गुणाधिका विजयदानसूरीन्द्राः।श्रीहीरविजयसूरिस्तत्पद्वेऽभूदमेयगुणः ॥४॥ येनाऽकब्बरभूपस्वान्ते, करुणा निवेशिता जंतोः। अद्यापि तस्य कीर्ति-र्जागर्ति तदीयतंत्रेषु ॥५॥ कूर्चालसरस्वतीति, विरुदं प्राप्तं च साहिना पुरतः। श्रीविजयसेनसूरि-जीतस्तत्पट्टमाणिक्यम् ॥६॥ तत्पद्रोदयशैले, तरणिनिभा विजयदेवसूरीन्द्राः । सविजयसिंहयुक्ताः, प्रवचनवेशद्यकृद्वाचः॥७॥ तत्पप्रभुताया-स्तिलकसमो धन्यपुण्यजनसेव्यः । श्रीविजयप्रभसूरि-स्संजातो भव्यहर्षकरः॥८॥ तद्गच्छरत्नकल्पाः, क्रियाकलापेन शुद्धचरणभृतः। श्रीविनयविमलसुधियः, श्रीमत्सत्कीर्तिविमलयुजः।९॥ तच्छिष्याश्चरणधरा, कवयः श्रीधीरविमलनामानः। तच्छिष्यो नयविमलो, नयगमभंगप्रमाणपटुः॥१०॥ श्रीविजयप्रभसूरेः, प्रसत्तिमासाद्य हृद्यवैराग्यात् । प्राप्तानूचानपद, उपसंपदया विरागमनाः॥१॥ सदज्ञानविमलसूरि-रवाप्तनामा तपागणे ख्यातः । तेनेदं शिशुचेष्टितमिव, विहितं विवरणं सम्यक् ॥१२॥ उपजीव्यपूर्ववृत्ति, यवत्र मतिमान्द्यतो मया रचितम् । समयविहीनं सदभिस्तच्छोध्यं मयि कृपां कृत्वा ॥१३॥ यस्मात् सतां विधेया, नोपेक्षाः सर्वथा भवन्ति कदा । जगदुपकृतिनिपुणानामभ्यर्थनयाऽनया किं स्यात् ?॥१४॥ आर्यैः सुपरिगृहीतं, यत्किञ्चिदपि प्रकाशतामापत् । पूर्णेन्दुना गृहीतो, हरिणोऽपि जगत्प्रकाशकरः ॥१५॥ अबार्थे खलु साहाय्य-कारिणः शांतिशालिनः कवयः। सुखसागरनामानः, कृतावधानास्तथा जाताः ॥१६॥ ञ्चिदपि भवन्ति कदा समयविहीनं सही ॥१०६॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy