________________
माद्वयोक्तमप्यनुष्ठानं विधेयं एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमादशकोक्तं सर्वमप्यनुष्ठानं कार्यमिति
अथ दर्शनप्रतिमाखरूपनिरूपणायाह, सम्यग्दर्शनं सम्यक्त्वं प्रथमा दर्शनप्रतिमा भवति इति कीदृशं सम्यक्त्वं-प्रशम-संवेगनिर्वेदानुकंपाऽऽस्तिक्य लक्षणैः पंचगुणविशिष्टं तथा कुग्रहः - कुशास्त्राभिनिवेशः शंका- कांक्षा - विचिकित्सा-मिध्यादृष्टिप्रशंसा-तत्संस्तवरूपाः पंच सम्यक्त्वातिचारशल्यरहितम्, अणुव्रत्तादिगुणविकलस्य योऽभ्युपगमः सा दर्शनप्रतिमा, सम्यग्दर्शनप्रतिपत्तिः तत्र पूर्व यदि केवलं आसीत् तथापि शंकादिदोषराजाभियोगाद्याकारषट्वर्जितत्वेन यथावत् सम्यग्दर्शनाचारविशेषपरिपालनाभ्युपगमेन च प्रतिमात्वं संभाव्यते, कथमन्यथा उपासकदशासु एकमासं प्रथमायाः प्रतिमायाः पालनेन व्यवहारः प्रतिपादितः इत्यादि ज्ञेयम् १
अथ द्वितीया - अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि गुणव्रतानि शिक्षाव्रतानि वधबंधाद्यतिचाररहितानि निरपवादानि च धारयतः सम्यक् परिपालयतो द्वितीया २ तृतीयायां सामायिकप्रतिमायां सामायिकं - सावद्ययोगपरिवर्जननिरवद्ययोगसेवनस्खभावं कृतं विहितं देशतो येन सामायिककृतः, इदं तात्पर्य अप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनं उभय - (काल) सम्बन्धि सामायिककरणं तृतीया ३ ।
चतुर्थी पौषधप्रतिमा यस्यां चतुर्दश्यष्टमीप्रभृतिदिवसेषु अमावस्यापौर्णिमादिषु पर्वतिथिषु चतुर्विधमप्याहारशरीरसत्काराब्रह्मचर्या (र्य) व्यापारपरिवर्जित (जैन) रूपं परिपूर्ण पौषधम्, न पुनरन्यतरेणापि प्रकारेण हीनं सम्यक् विधिनाऽनुपालयति आसेवते । | एतासु चतसृष्वपि व्रतादिप्रतिमासु बंधादीन् - बंधवधच्छेदप्रभृतीन् षष्ठिसंख्याकान् द्वादशव्रतविषयान् ( अतिचारान् ) प्रयत्नतो वर्जयति - परिहरतीति ४ ।