SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृति ॥८०॥ अत्र च गाथायां प्रतिमेति उक्तः सः कायोत्सर्गः तत्र दर्शनं सम्यक्त्वं १ व्रतानि अणुव्रतादीनि २ सामायिकं च सावद्यानवयोग परिवर्जनासेवनखरूपम् ३, पौषधं चाष्टमीचतुर्दशीप्रमुखेषु पर्वदिनानुष्ठेयोऽनुष्ठानविशेषः ४ प्रतिमा च कायोत्सर्ग: ५ अब्रह्ममब्रह्मचर्य ६ [सचित्तं चसचेतनद्रव्यं ७ इति समाहार द्वन्द्रः ] दर्शनादिषु पञ्चसु पदेषु प्रतिमा शब्दो योज्यः, अब्रह्मादिषु पञ्चसु पदेषु (अंत्रा सचित्तयोस्तु) वर्ज कशब्दो योज्यः, आरम्भश्च स्वयं कृष्यादिकरणं ८ प्रेषणं परेषां पापकर्मसु व्यापारणं ९ उद्दिष्टं च तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृत्य पक्कं तदेव वर्जयति परिहरति स आरंभ - प्रेषोद्दिष्टवर्जकः, प्रतिमेति शब्दः प्रकृतं १० । इह च प्रतिमाप्रतिमावतोरभेदोपचारात् प्रतिमावतो निर्देशः कृतः । तथा श्रमणः साधुः इव यः स श्रमणभूतो भूतशब्दस्योपमानार्थत्वात् न तु तदेवेति, चशब्द:- समुच्चये एतावता एकादश श्राद्धानामुपासकानां प्रतिमाः - प्रतिज्ञा अभिग्रहाः, एतासाम् कालमानं यथा-प्रतिमायां प्रथमायां एको मासः कालमानं, द्वितीयायां द्वौ मासौ, तृतीयां त्रयो मासाः, चतुर्थायां चतुर्मासाः, यावदेकादृश्यामेकादश मासाः, एतच्च कालमानं यद्यपि दशाश्रुतस्कन्धादिषु साक्षानोपलभ्यते तथाप्युपासकदशासु प्रतिमाप्रतिपन्नानां आनन्दादिश्रमणोपासकानां सार्द्धवर्षपंचकलक्षणं [प्रतिमैकादश] प्रमाणं प्रतिपादितम्, प्रवचनसारोद्धारादिषु तथैव भणितम्, तथा उत्तरोत्तरास्खपि तासु प्रतिमासु क्रियमाणासु पूर्वपूर्वप्रतिमाः प्रतिपादिताः सर्वा अपि क्रिया- अनुष्ठानविशेषरूपाः कर्त्तव्या एव । इयमत्र तात्पर्य द्वितीयायां प्रतिमायां प्रथमप्रतिमोक्तमनुष्ठानं निरवशेषं कर्तव्यमिति । तृतीयायां तु प्रथमद्वितीयप्रति) पतचिन्हं न्यस्तम १ प्रवचनसारोद्धारे पृ० २९३ तमे पतदधिकं योग्यमपि अत्र स्खलितं प्रतिभाति । २ यत्र ( शुद्धस्थले शुद्ध [ ] पतचिन्हं तु अधिक पाठाय ॥ ३ प्रवचनसारोद्धार पृष्ठ २९३-२११ पंक्ती पश्चम संवरद्वारे रागादि अशातना. न्तानां वर्णनं ॥८॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy