________________
परववए सेणं जंच गेण्हइ, परस्स नासेइ जं च सुकयं, दाणस्स य अंतरातियं दाणविष्पणासो, पेसुन्नं चैव मच्छरित्तं च, जेविय पीढ-फलग- सेज्जा - संथारग-वत्थ-पाय- कंबल- मुहपोत्तिय- पाय पुंछणादिभायण भंडोवहिउवकरणं | असंविभागी । असंगहरुती, तबतेणे य, वइतेणे य रूवतेणे य, आयारे चेव भावतेणे य, सहकरे, झज्झकरे, तीर्थकर गुरुभ्यामननुज्ञातत्वेन वर्ज्य, अदत्तलक्षणं चेदं "सामीजीवादत्तं " इति लक्षणात् । तथा परस्याचार्यादेः ग्लानादेर्व्यपदेशेनव्याजेन यच्च गृह्णाति -आदत्ते वैयावृत्त्यकारादिस्तत्तेनाऽन्येन च वर्जयितव्यं आचार्यादेरेव दायकेन दत्तत्वात्, तथा परस्परसंबंधो नाशयति अपरान् अपह्नुते यच्च सुकृतं तदपि वर्जयितव्यं, दानस्य वा आन्तरायिकं विघ्नं दानविप्रनाशो दत्तादानलोपः, तथा पैशून्यंपिशुनकं, मत्सरित्वं - गुणानामसहनं तीर्थकराननुज्ञातत्वात् वर्ज्य योऽपि च पीठ - फलक - शय्या - संस्तारक - वस्त्र - कंबल - मुख पोत्तिक एतेषां शब्दानां शब्दार्थाः पूर्व व्यावर्णिता इति पादप्रच्छनादिभाजनभांडोपधि-उपकरणं इत्यादि पदार्थः जातीनां आचार्यग्लानादीनां असंविभागी एषणागुणविशुद्धलब्धं सन् न विभजते नाराधयति व्रतमिदं इति संबंधः । असंग्रहरुचिरितिकोऽर्थः ? गच्छोपग्रहकरणस्य एषणादोषविमुक्तस्य प्राप्तस्य उदरंभरित्वेन नार्पयामीति अविद्यासंग्रहे रुचिर्यस्यासौ असंग्रहरूचिः कीदृशः तपस्तेनः तपसा चौरः स्वभावतः कृशमनगारं दृष्ट्वा कश्चित्पृच्छति भोः साधो ? गच्छे मासक्षपणकः श्रुतः स त्वमेवेति पृष्टे असनपि स्वम् - आत्मानं तद्गुणवन्तं ब्रूते, अथवा धूर्त्ततया वक्ति साधवः क्षपणकारिण एव भवन्ति श्राद्धस्तु मन्यते, एवं सकलसाधुसाधारणवचनमाविष्करोति इति तेन वचस्वी पूर्व भगवान् श्रुतः स त्वं मेनेत्युक्ते आत्मानं तद्रूपं संपादयन् वचस्तेनः रूपस्तेनो यथा, तत्र रूपं द्वेषा शारीरसुन्दरता सुविहितसाधुनेपथ्यं वा यथा
2XURING
PUSS