________________
ASHREEROCEREMADRAKASAUR
निग्गंधे, णेट्टिकं, निरुतं, निरासवं, निभयं, विमुत्तं, उत्तमनरवसभ-पवरबलवग-सुविहितजणसंमतं, परमसाहुधम्मचरणं, जत्थ य गामागर-नगर-निगम-खेड-कब्बड-मडंब-दोणमुह-संवाह-पट्टणासमगयं च किंचि दव्वं मणि-मुत्त-सिलप्पवाल-कंस दूस-रयय-वरकणग-रयणमादि पडियं पम्हुह विप्पणटुं न कप्पति कस्सति से कहेउं वा गेण्हिडं वा अहिरनसुवन्निकेण समलेट्टकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियव्वं, जंपिय होजाहि दव्वजातं खलगतं भ्यन्तरग्रन्थिरहितं, निष्टिकं-सर्वधर्मप्रकर्षपर्यन्तवत्ति, निरुक्तं-सर्व रुपादेयतया निरुक्तं अव्यभचारि, निराश्रवं कर्मादानरहितं | निर्भयं-राजादिभयरहितं, विमुक्तं लोभदोषात्, उत्तमनरवृषभाणां प्रवरबलवतां च सुविहितजनस्य-साधुलोकस्य संमतं-अभिमतं | यस्य तत्तथा, परमसाधूनां-उत्कृष्टमुनिवराणां धर्मचरणं-धर्मानुष्ठानं यत्तत्तथा । यत्र-तृतीयसंवरद्वारे ग्राम-आगर-नगर-निगम-खेडट्र कर्बट-मडंब-द्रोणमुख-पत्तन-आश्रम, इत्यादयः शब्दाः पूर्वव्याख्याताः तद्गतं च दत्तं किञ्चिद् अनिर्दिष्टस्वरूपं द्रष्टव्यम् तदेवाह
मणि-मौक्तिक-शिला-प्रबाल-फांस्य-रुप्य[य]-रजत-वरकनक-रत्नादिसर्वद्रव्यजातं पतित-भ्रष्टं वस्त्राञ्चलादेः, विस्मृतं-मुक्तं
सन् , प्रनष्टस्वामिकं गवेषयद्भिरपि न प्राप्तं न कल्पते-न युज्यते, कस्यचित्-असंयतस्य कथयितुं-प्रतिपादयितुं अदत्तग्रहणप्रवर्तनं तू माभूदिति कृत्वा गृहीतुं-आदातुं साघोः निवृत्तत्वात् तेन साधुना दृष्टे परद्रव्ये कया भावनया वर्तितव्यं तदाह
। न विद्यते हिरण्यं-सुवर्ण यस्य तेन समे-तुल्ये उपेक्षणीयतया लेष्टु प्रस्तरं काञ्चनं च यस्य स तेन, अपरिगृहत्वात् सुसंवृत्तेन | सुसंयतेन-साधुना लोके-मर्त्यलोके व्यवहर्त्तव्यम् , यदपि च भवेत् हि-निश्चितं द्रव्यजातं-द्रव्यप्रकारः कीदृशं ? खलं-धान्यराशि
LABESASALAASABHAECA