SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विभ्रमे बहुवचनप्रतिरूपकाणामेकदचनता कातन्त्र 'दधिस्येति' दधि मधु, दना भोजनमिच्छति मध्विच्छति, 'करणे च य' इति यप्रत्ययः,सुगागमः हि अप् प्रत्ययः, अदेऽलोपः, 'अत' (सारस्वता (७-३-१३)इति हेर्लुक्, दधिस्य मधुस्य,असुगागमे दध्यस्य मध्वस्येति सिद्धं । कं-वारि तस्य इनः-स्वामी केनस्तस्य सम्बोधनं केन, अपापा इत्यसुप्तता-अस्यावन्तता त्याद्यन्तता साध्यते 'पर्द कुत्सिते शब्दे' पर्दु अत्यर्थ पर्दते 'आतिशये हसादेय'डिति(७-३-५७) यङ्प्रत्ययः, ॥३२॥ वा अन्यत्रेति (८-२-२७) यङ्लुक्, 'द्विश्च' पपई 'आत' इति (७-४-३५) पूर्वस्य दीर्घः, अनद्यतनस्प्रत्ययः, 'दिबादाव' &(७-२-४) 'सोऽपदान्ते रेफप्रकृत्योरपि दधो रत्त्वं इति व्याकरणान्तरसूत्रेण दस्य र द्, 'दिस्योर्हसा'दिति (७३-३) स्लोपः, |'रिलोपो दीर्घश्चेति (२-४-१२) रलोपः पूर्वस्य च दीर्घः 'स्रोर्विसर्गः' (४-४-९) अपापा इति सिद्धं, एवं स्पर्द्धर्नद्धश्च अपास्पाः अनाना इति भवति, एवमन्येषामप्येवंजातीयानां यलुगन्तानामूह्यानि रूपाणि ॥ ७ ॥ एतेषां कथमेकत्त्वं, वनानि ब्राह्मणैरमी । वृक्षाः पचन्ति येषां यान , वायुभ्यः पार्थिवाः सुराः॥८॥ 'एतेषा' मिति वैषम्यमेव लिखामः, 'वन षण संभक्तो' वन्, तुबादिस्थ आनिप्प्रत्ययः, 'अप् कर्तरि' 'सवर्णे दीर्घः' (२-१-१४ ) सह, वनानि । ब्राह्मण सम्बोधनं अग्रे 'इण गतौ इ, दिबादिस्प्रत्ययः 'अप् कर्तरि' 'अदादेलक' 'दिबादावद 'अइए' (२-१-१५) स्वरादेः 'ए ऐ ऐ' (२-१-१९) ऐः ब्राह्मणैः, हे ब्राह्मण ! त्वं ऐः-गच्छ इत्यर्थः । अमोऽस्यास्तीत्यमि 'मान्तोपधात्विना' विति ( ६-१-३६ ) इन्प्रत्यये अमी। 'अस क्षेपणे' अस् वृक्षपूर्वः, वृक्षान् अस्यतीति कि लोपः, प्रथमैकवचनं सिः १-१ 'हसेपः से०' वृक्षा । 'डु पच पाके' पच्, पचतीति 'शतृशानौ तिप्तेवत्क्रियाया' मिति (८-२-१७) शतृ
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy