________________
संवेगरंगसाला
मांसभक्षणस्य दोषाः त्यागस्य फलं च ।
॥५४६॥
जह जीवंऽगत्तसमत्त-मत्तओ किजए इह पवित्ती। जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला ॥७०९०॥ तो एसा लोगकया, भक्खववत्था इमा उ सत्थकया। लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं ॥७०९१॥ हिंसाप्रवर्तकं मांस, अधर्मस्य च बर्द्धनं । दुःखस्योत्पादकं मांस, तस्मान्मांस न भक्षयेत्
॥७०९२॥ स्वमांसं परमांसेन, यो बर्द्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र यत्रोपजायते
॥७०९३॥ दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरक याति, अधर्मः पापपूरुषः ७०९४॥ 'आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् ॥७०९५॥
गच्छन्ति नरक घोरं. तिर्यग्योनि कुमानुष । येत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां ॥७०९६॥ योऽत्ति यस्य च तन्मांसं. अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-न्यः प्राणवियुज्यते ॥७०९७॥
श्रयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत !। तेषु प्राप्नोति स स्नान', यो मांसं नैव भक्षयेत् ॥७०९८।। , निर्वाणं देवलोक वा, प्रार्थयन्ति हि ये नराः। न वजयन्ति मांसानि, हेतुरेषां न विद्यते ॥७०९९॥ कि लिङ्गवेषग्रहणः, कि शिरस्तुण्डमुण्डनैः। यदि खादन्ति मांसानि, सर्वमेव निरर्थक
॥७१००॥ यो दद्यात् काश्चन मेरु, कृत्स्नां चैत्र वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! ॥७१०१॥ 16.
नाऽकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधे स्वर्ग-स्तरमान्मांसं न भक्षयेत् ॥७१०२।। । शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसन्ते तत्र देवताः
॥७१०३॥
॥५४६॥