________________
संवेगरंगसाला
पुरोहितरोपे मुनिकृतं वेदादिशात्रनिरूपितं जीवदया स्वरूपम्।
॥३७२॥
उवरोहिएण तत्तो, अंतो पसरततिव्वरोसेण । भणियं हंहो मुणिवर !, तुममऽम्हं दूससे जागं ॥४.७९॥ वेयऽत्थं अमुणे तो, पुराणसत्थाण किपि परमऽत्थं । अवियाणमाणगो वि हु, अहो ! सुधिद्वत्तणं तुज्झ ॥४७८०॥ गुरुणा भणियं भद्दय !, किमेवमुल्लवसि रोसवसगो तं । वेयपुराणाण तुमं, परमऽत्थं नेव मुणसि ति ॥४७८१।। कि भद्द ! तुज्झ सत्थेसु, पुव्वमुणिविरइएसु सव्वत्थ । जीवदया न कहिजइ, तब्वयणं वा न सुयमेयं ॥४७८२॥“यो ददाति सहस्राणि, गवामऽश्वशतानि च । अभयं सर्वसत्त्वेभ्य-स्तद्दानमऽतिरिच्यते
॥४७८३।। समग्रावयवान् दृष्ट्वा, नरान् प्राणिवधोद्यतान् । पंगुभ्यश्छिन्नहस्तेभ्यः, कुष्ठिभ्यः स्पृहयाम्यहं ॥४७८४॥ | कपिलानां सहस्र तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात्, कलां नाऽर्हति षोडशी ॥४७८५।। | नाऽतो भूयस्तमो धर्मः, कश्चिदज्योऽस्ति भूतले । प्राणिनां भयभीतानां, अभयं यत्प्रदीयते ॥४७८६॥ वरमेकस्य सत्त्वस्य, दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्रेभ्यो, गोसहस्रमऽलंकृतं
॥४७८७|| । अभयं सर्वसत्वेभ्यो, यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य, भयं नास्ति कुतश्चन
॥४७८८|| । हेमधेनुधराऽऽदीनां, दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः
॥४७८९॥ महतामपि दानानां, कालेन क्षीयते फलं। भीताऽभयप्रदानस्य, क्षय एव न विद्यते
॥४७९०॥ दत्तमिष्टं तपस्तप्तं, तीथसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नाऽहन्ति पोडशी'
॥४७९१॥ यथा मे न प्रिया मृत्युः, सर्वेषां प्राणनां तथा । तस्मान्मृत्युभयत्रस्ता-स्त्रातव्याः प्राणिनो बुधैः” ॥४७९२॥
॥३७२॥