________________
जीववि. १६
॥ श्रीपरमगुरुभ्यो नमः ॥
अथ
श्रीदेवचंद्रजीकृत नयचक्रसार बालावबोधसहित लिख्यते.
॥ मंगलाचरण ॥
प्रणम्य परमब्रह्म, - शुद्धानन्दरसास्पदम् । वीरं सिद्धार्थराजेन्द्र, - नन्दनं लोकनन्दनम् ॥ १ ॥ नत्वा सुधर्मस्वाम्यादि, सङ्घ सद्वाचकान्वयं । स्वगुरून् दीपचन्द्राख्यपाठकान् श्रुतपाठकान् ॥ २ ॥ नयचक्रस्य शब्दार्थं कथनं लोकभाषया । क्रियते बालबोधार्थं, सम्यग्मार्गविशुद्धये ॥ ३॥